________________
Jain Educati
सप्तम उदयः ।
अथ शुचिकर्म संस्कारविधिः ॥ ७ ॥
अत्र च शुचिकर्म स्वस्ववर्णानुसारेण व्यतीतदिनेषु कार्य । तद्यथा - "शुध्येद्विप्रो दशाहेन द्वादशाहेन बाहुजः । वैश्यस्तु षोडशाहेन शूद्रो मासेन शुध्यति ॥ १ ॥ कारूणां मृतकं नास्ति तेषां शुद्धिर्नवापि हि । ततो गुरुकुलाचारस्तेषु प्रामाण्यमिच्छति ॥ २ ॥” ततः कारणात्स्वस्ववर्णकुलानुसारेण दिनेषु व्यतीतेषु गुरुः सर्वमपि षोडशपुरुषयुगादव तत्कुलजवर्ग समाहाययेत् । यतः सूतकं हि षोडशपुरुषयुगादर्वाक् गृह्यते । यदुक्तं - "नृषोडशकपर्यन्तं गणयेत्सूतकं सुधीः । विवाहं नानुजानीयाद्गोत्रे लक्षन्नृणां युगे ॥ १ ॥” ततस्तान् गोनाहाय सर्वेषां साङ्गोपाङ्ग स्नानं वस्त्रक्षालनं च समादिशेत् । ते स्नाताः शुचिवसना गुरुं साक्षीकृत्य विविधपूजाभिर्जिनमर्चयन्ति । ततश्च बालकस्य मातापितरौ पञ्चगव्येनाचान्तस्नातौ सशिशू नखच्छेदं विधाप्य योजितग्रन्थी दंपती जिनप्रतिमां नमस्कुरुतः । सधवाभिर्मङ्गलेषु गीयमानेषु वाद्येषु वाद्यमानेषु सर्वेषु चैत्येषु पूजानैवेद्यढौकनं च । साधवे यथाशक्त्या चतुर्विधाहारवस्त्रपात्रादानं । संस्कारगुरवे वस्त्रतांबूलभूषणद्रव्यादिदानं । तथा जन्मचन्द्रार्कदर्शनक्षीराशनषष्ठीसत्कदक्षिणा संस्कारगुरवे तस्मिन्नहनि देया ॥ सर्वेषां गोत्रजस्व जनमित्रवर्गाणां यथाशक्त्त्या भोजनतांबूलदानम् । तथा गुरुः तत्कुलाचारानुसारेण शिशोः
tional
For Private & Personal Use Only
www.jainelibrary.org