________________
Jain Education
ण्डश्चन्द्र चन्द्रप्रभस्यच । वासुपूज्यो भूमिपुत्रो बुधोऽप्यंष्टजिनेश्वराः ॥ ३॥ विमलानन्तधर्माराः शान्तिः कुन्थुमिस्तथा । वर्धमानो जिनेन्द्राणां पादपद्मे बुधं न्यसेत् ॥४॥ ऋषभाजितसुपार्श्वा अभिनन्दनशीतलौ । सुमतिः संभवः स्वामी श्रेयांसश्च बृहस्पतिः ||२|| सुविधिः कथितः शुक्रः सुव्रतश्च शनैश्चरः । नेमिनाथो भवेद्राहुः केतुः श्रीमल्लिपार्श्वयोः ||६|| जन्मलग्ने च राशौ च पीडयन्ति यदा ग्रहाः । तदा संपूजयेद्वी मान्खेचरैः सहि- तान जिनान् ||७|| गन्धपुष्पादि भिंर्धूपैर्नैवेद्यः फलसंयुतैः । वर्णसदृशदानैश्च वासौभिर्दक्षिणान्वितैः ॥ ८ ॥ आदित्य सोममङ्गलानुधगुरुशुक्राः शनैश्वरो राहुः । केतुप्रमुखाः खेटा जिनपतिपुरतोऽवतिष्ठन्तु ॥ ४॥ जिना - नामग्रतः स्थित्वाग्रहाणां तुष्टिहेतवे । नमस्कारस्तवं भक्त्या जपेदष्टोत्तरं शतम् ॥ १० ॥ भद्रबाहुरुवाचेदं पञ्चमः श्रुतवली | विद्याप्रवादतः पूर्व ग्रहशान्तिविधिस्तवः ॥ ११ ॥ " इति भणित्वा पञ्चवर्णपुष्पाञ्जलिं - पेत् । ततः सूर्यपूजने - घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधोशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्यः सायुधःः सवाहनः सपरिच्छदः इह ग्रहशान्तिके आगच्छ २ इदमध्ये पायं बलिं च आचमनीयं गृहाण २ सन्निहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं अक्षतान् फलानि मुद्रां धूपं दीपं नैवेद्यं • सर्वोपचारात् शान्ति कुरु तुष्टिं पुष्टि ऋद्धि वृद्धिं सर्वसमीहितं देहि २ स्वाहा || "अदितेः कुक्षिसं १ प्यष्टजिनेषु च इति पाठः । २ दीपैः फलनैवेद्यसंयुतैरिति पाठः ।
Wational
For Private & Personal Use Only
www.jainelibrary.org