________________
आचार
दिनकरः
॥२४१॥
Jain Education
नक्षत्राणां संकुलपूजा । नक्षत्रपीठोपरि अष्टाविंशतिहस्तप्रमाण सदशान्यङ्गवस्त्राच्छादनं कुर्यात् । शान्तिके क्रियमाणे यस्य नक्षत्रस्य शान्तिकं विधीयते तस्यैव अनया रीत्या होमः । शेषाणां होमः पूजा च पूर्ववत् । केचिच भिन्नमपि नक्षत्रशान्तिकर्माचक्षते ॥
अथ ग्रहशान्तिकम् ॥ तत्र पूर्व ग्रहस्थापनम् । शुद्धभूमौ गोमयानुलिप्तायां श्रीखण्डश्रीपर्णीपीठेचन्दनानुलिप्ते स्वस्ववर्णैर्ग्रहान्स्थापयेत् विधिपूजितायास्तीर्थकर प्रतिमायाः पुरः । तेषां स्थापनकृतिर्यथा - "मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहितं विद्याद्बुधः पूर्वोत्तरेण तु ॥ १ ॥ उत्तरेण गुरुं विद्यात्पूर्वेव तु भार्गवम् । पश्चिमेन शनिं विद्याद्वाहुं दक्षिणपश्चिमे ॥ २ ॥ पश्चिमोत्तरतः केतुः स्थाप्यश्च किल तन्दुलैः । मार्तण्डे मण्डलं वृत्तं चतुरस्रं निशाकरे ॥२॥ महीपुत्रे त्रिकोणं स्याद्बुधे वै वाणसन्निभम् । गुरौ तु पट्टिकाकाकारं पञ्चकोणं तु भार्गवे ॥४॥ धनुराकृतिर्मन्दे तु शूर्पाकारं तु राहवे । केतवे तु ध्वजाकारं मण्लानि नवैव तु ॥ ५ ॥ शुक्रा प्राङ्मुखौ ज्ञेयौ गुरुसौम्यावुदङ्मुखौ । प्रत्यङ्मुखः शनिः सोमः शेषाश्च दक्षिणामुखा ॥ ६॥” इति ग्रहाणां मण्डलस्थापनविधिः प्रतिष्टाष्टाहिकादिषु स्थापनीयः श्रेयः स्यात् । तत एवं संस्थाप्य पुपाञ्जलिं गृहीत्वा - "जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम् । ग्रहशातिं प्रवक्ष्यामि लोकानां सुखहेतवे ॥१॥ जिनेन्द्रैः खेचरा ज्ञेयाः पूजनीयाः विधिक्रमात् । पुष्पैर्विलेपनैर्धूपैर्नैवेद्यस्तुष्टिहेतवे ॥२॥ पद्मप्रभस्य मार्त
For Private & Personal Use Only
॥२४१॥
ww.jainelibrary.org