SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आ. दि. ४१ नमयं स्नात्रं क्रमेण ४ । तदनन्तरं पूर्वोक्तशतमूल्याद्यौषधस्नात्रं क्रमेण । ततः पूर्वोक्तजिनस्नात्रोदकेन स्नात्रम् । ततस्तीर्थोदकशुद्धजलस्नात्रम् । तदनन्तरं दर्पणदर्शनं अर्धपात्रदर्शनं शिशोः कारयेत् । पद्ममुद्गरगरुडकामधेनुपरमेष्ठिरूपाः पञ्च मुद्राश्च बालकशिरसि कुर्यात् । ततो वीजपूरादिफलसहितं बालं वाससाच्छादितं नयेत् । तदनन्तरं लग्नवेलायां मुखमुद्धाय्य दधिपात्रे घृतपात्रे पिता बालमुखं दृष्ट्वा पश्चात्साक्षादवलोकयेत् । अयं च विधिः पूर्वशान्तिकमध्ये पृथग्वा कार्यः । इति मूलविधानम् ॥ पूर्वाषाढादिशान्तिकानि । पूर्वाषाढशान्तिके वरुणं संस्थाध्य पूर्ववत्संपूज्य घृतमधुगुग्गुलकमलैर्होमः ॥ २० ॥ उत्तराषाढशान्तिके विश्वेदेवान्संपूज्य मधुसर्वान्नसर्वफलैर्होमः ॥ २१ ॥ अभिजित् शान्तौ ब्रह्माणं सं० घृततिलयवदर्भैर्होमः ॥ २२ ॥ श्रवणशान्तौ विष्णुंसं० सर्वत्र घृतयुतवस्तुहोमः ॥ २३ ॥ धनिष्ठाशान्तौ वसून्संपूज्य घृतमधुमुक्ताफलहोमः || २४ ॥ शतभिषक्शान्तौ वरुणं सं० घृतमधुफलकमलहोमः ॥ २५ ॥ पूर्वाभाद्रपदाशान्तो अजपादं सं० घृतमधुभ्यां होमः ॥ २६ ॥ उत्तराभाद्रपदाशान्तौ अहिर्बुध्न्यं सं० घृतमधुहोमः ॥ २७ ॥ रेवतीशान्तौ सूर्य सं घृतमधुयुतैः कमलैर्होमः ॥ २८ ॥ ॐ नमो आश्विन्यादिरेवतीपर्यन्तनक्षत्रेभ्यः सर्वनक्षत्राणि सायुधानि सवाहनानि सपरिच्छदानि इह नक्षत्रशान्ति के आगच्छन्तु २ इदमर्घ्य आ चमनीयं गृह्णन्तु २ सन्निहितानि भवन्तु स्वाहा २ जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टि पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ स्वाहा । इति For Private & Personal Use Only Www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy