SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥२४॥ ALSORRACKRA ततोऽपि कुशलानि । मूलविधाने विहिते सियन्ति मनोरथाः सर्वे ॥१०॥ आश्लेषामूलजातानां शिशूनां न पिता मुखम् । पश्येद्यावन्न द्वितीयागमे शान्तिकमाचरेत् ॥ ११॥ गण्डान्तव्यतिपातभद्रादिषु समयजातेषु । बालेषु सूतकान्ते शान्तिकमेवं विधातव्यम् ॥ १२॥ तिथिवारेन्दुलग्नादि न पश्येद्धिष्ण्य आगते । तच्छान्तिकं प्रकुर्वीत विष्टयादिसूतकान्ततः॥१३॥ त्रिज्येष्टे च त्रिवेण्यां च कन्याद्वयसमुद्भवे । जाते हीनाधिकाङ्गे च मूलस्नानं प्रशस्यते ॥१४॥ तथा अथवा श्रीपुष्पदन्तमन्त्रस्नानानन्तरं बालस्य कङ्कणबन्धादर्वाक विध्यन्तरमामनन्ति । यथापूर्व दिग्बन्धनं । यथा पूर्वादिशि ॐ इन्द्राय नमः इन्द्राण्यै नमः । ॐ अग्नये नमः आग्रेय्यै नमः । ॐ यमाय नमः याम्यै नमः। ॐ नितये नमः नैऋत्यै नमः। ॐ वरुणाय नमः वारुण्यै नमः । * वायवे नमः वायव्यै नमः । ॐ कुबेराय नमः कौबेर्यै नमः। ईशानाय नमः ईशान्यै नमः। ॐ नागेभ्यो नमः नागोण्यै नमः । ॐ ब्रह्मणे नमः ब्रह्माण्यै नमः। ॐ इन्द्राग्नियमनितिवरुणवायुकुबेरेशाननागब्रह्मणो दिगधीशाः स्वस्वशक्तियुताः सायुधबलवाहनाः स्वस्वदिक्षु सर्वदुष्टक्षयं सर्वविघ्नोपशान्ति कुर्वन्तु २ स्वाहा इति पुष्पाक्षतक्षेपैदिग्बन्धनं नैवेद्यक्षेपश्च । ततः मातृशिश्वोः अङ्गेषु मन्त्रन्यासश्च यथा-3 मस्तके-श्री-ललाटे भू-भ्रुवोः-हीं नेत्रयोः-ह्रीं नासायां-ऐं कर्णयोः-हीं कण्ठे-हीं हृदि-हूं बाहोः-खां उरे-क्लीं नाभौ-हः लिङ्गे -हां जङ्घयोः यः पादयोः-उलूं सर्वसंधिषु । ततोऽनन्तरं पूर्वोक्तश्लोकपाठपूर्व मूलचतुःपादकथितवस्तु कोरा १ ईदृशाः प्रयोगा रूदाः । RSS54ऊक |॥२४॥ Jan Educati Tww.jainelibrary.org o For Private & Personal Use Only nal
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy