________________
CHOCHHICHISHIRISA
जायं विग्यविणासणं । तं जिणस्स पइहाए बालस्स सुशिवंकरं ॥१॥" ततोऽनन्तरं बालस्य कपोले चपेटात्रयं देयं । ततो रुदन्तं बालकं वामहस्तेन पितुरर्पयेत् पश्चान्महामहोत्सवेन वासगृहं यान्ति । बालस्य कण्ठेमूले मूलवृक्षाडितं आश्लेषायां साडितं स्वर्णमयं रूप्यमयं वा पत्रकं परिधापयेत् । इति मूलाश्लेषाविधानम् ॥ गुरवे स्वर्णमुद्रिकादानं । बालकस्य मण्डिपरिधापनं । कन्याया वस्त्रत्रयस्य परिधापनं । केचिच्च मूलपादचतुष्के भिन्नं स्नात्रं बालस्याहुः । “दिग्बन्धकरणपूर्व प्रक्षिप्य बलिं विधाय रक्षां च । अङ्गेषु शिशुजनन्योविधिवन्मन्त्राक्षराण्यस्येत् ॥१॥ लक्षाक्षतप्रमाणं प्रथमं स्नानं समन्त्रमिह विहितम् । मूलाद्यपाददोषान् हरतु पितुर्वितनुताद्भद्रम् ॥२॥ युगन्धी ततः स्नानं तथैव विहितं हितम् । दोषाद्वितीयपादस्य जनन्या हरति क्षणात् ॥३॥ तृतीयं सर्षपस्थानं दोषतानवहेतवे । भूयात्तृतीयपादस्य धनवृद्धिनिबन्धनम् ॥४॥ ससधान्यमयं स्नानं चतुर्थ मन्त्रपूर्वकम् । सर्वदोषापहं भूयात्सर्वसंपत्तये पितुः॥५॥ अष्टादशाहत्प्रतिमा विधेया स्नानोदकान्येकतमे च कुम्भे । विधाय कुर्यादभिषेकमेके कृतस्य बालस्य शुभाभिवृद्धयै ॥६॥ दर्शयेत्तदनु दपणं शिशोरपात्रमपि दर्शयेत्तथा । पद्ममुद्गरगरुत्मदादिका मुद्रिकाः प्रकटयेत्ततो गुरुः ॥७॥ बीजपूरकनारिङ्गबदरप्रमुखैः फलैः । पूरितामथो बालं वाससाच्छादयेद्गुरुः ॥८॥ लग्नसमयेऽथ बालकमुत्थाप्य विलोक्य दनि मुखमस्य । तदनु च घेतपात्रेऽसौ साक्षात्सर्वोप्यवेक्षेत ॥९॥ नश्यन्ति दुरितततयः स्फूर्जन्ति समं
१ वृतभृतपाने साक्षात्सर्वोप्यवीक्षेत इति पाठः ।
Jain Educa
t ional
For Private & Personal Use Only
Diwww.jainelibrary.org