________________
Jain Education In
देवतां प्रतिमं मं नमः पुरदेवाय स्वाहा इति मूल० । ॐ नमः पुरदेवाय सायुधाय सवाहनाय सपरिकराय पुरदेव इह० शेषं० पुं० ॥ ४ ॥ चतुर्णिकायदेवपूजनं पूर्ववत् ॥ ५ ॥ अष्टहस्तवस्त्राच्छादनं । इति सari पूजां विधाय त्रिकोण कुण्डे होमः । परमेष्ठिसंतर्पणे खण्डघृतपायसैः श्रीखण्डश्रीपर्णी समिद्भिर्होमः । दिक्पाल संतर्पणे घृतमधुफलैः प्लक्षाश्वत्थसमिद्भिर्होमः । ग्रहसंतर्पणे क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिर्होमः । विद्यादेवी संतर्पणे घृतपायसखण्डफलैरश्वत्थसमिद्भिर्होमः । गणपतिसंतर्पणे मोदकैः उदुम्बरसमिद्भिर्होमः । कार्तिकेयसंतर्पणे मधूकपुष्पैः सघृतैः प्लक्षसमिद्भिर्होमः । क्षेत्रपालसंतर्पणे तिलपिण्डैर्घ तू रसमिद्भिर्होम: । पुरदेवतासंतर्पणे घृतगुडक्षौद्रैर्वट समिद्भिर्होमः । चतुर्णिकायदेव संतर्पणे नानाफलैः पायसैः प्राप्तसमिद्भिर्होमः । सर्वत्र होमे मूलमन्त्राः । समिधः सर्वत्र प्रादेशप्रमाणाः । एवं सर्वेषां पूजनं होमं च विधाय पुष्पाञ्जलिक्षेपादनन्तरं यः सर्वोपि बृहत्स्नानविधिः कथितः स्नपनविधिः स सर्वोपि विधेयः । ततः स्नात्रानन्तरं स्नात्रोदकं सर्व ग्राह्यम् । सर्वतीर्थजलं च संमील्य बिम्बाग्रे सुविलिप्तभूमौ चतुष्किकोपरि न्यस्तस्य यथासंपत्तिकृतस्य बद्धकण्ठस्य मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादिबन्धनं सर्वत्र शान्तिमन्त्रेण । ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि नालिकेरं च शान्तिमन्त्रेण न्यसेत् । ततः शुद्धोदकैरखण्डधारया द्वौ स्नात्रकारौ स्नात्रकलशं पूरयतः । उपरिच्छदाधारेण आकलशमूलावलम्बि सदशवस्त्र बध्नीयात् । गुरुश्च कुशेन तां जलधारां शान्तिकलशे निपतन्तीं शान्तिकदण्डकं पठन्नभिमन्त्रयति । शान्ति
For Private & Personal Use Only
ainelibrary.org