________________
आचार
दिनकरः
॥२३३॥
Jain Education I
शांतिsa निकृन्तु ॥ १ ॥ " नमो वृषाय वृष इह शेषं पूर्ववत् ॥ २ ॥ मिथुनंप्रति । “शशिनंदनगेहाय राहूचकरणाय च । पश्चिमाशास्थितायास्तु मिथुनाय नमः सदा ॥ १ ॥” नमो मिथुनाय मिथुन इह शेषं० ॥ ३ ॥ कर्कप्रति । " वाक्पतेरुच्चकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥ १ ॥ " ॐ नमः कर्काय कर्क इह शेषं० ॥ ४ ॥ सिंहप्रति । "पद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥ १ ॥” ॐ नमः सिंहाय सिंह इह शेषं० ॥ ५ ॥ कन्यांप्रति । " बुधस्य सदनं रम्यं तस्यैवोचत्वकारिणी । कन्या कृतान्तदिग्वासा ममानन्दं प्रयच्छतु ॥ १ ॥ " नमः कन्यायै कन्ये इह शेषं० ॥ ६ ॥ तुलांप्रति । “यो दैत्यानां महाचार्यस्तस्यावासत्वमागतः । शनेरुचत्वदातास्तु पश्चिमास्थस्तुलाधरः ॥ १ ॥ " नमस्तुलाधराय तुलाधर इह शेषं० ॥ ७ ॥ वृश्चिकं प्रति । "भौमस्य तु सुखं क्षेत्रं धनदाशाविभासकः । वृश्चिको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ १ ॥ " नमो वृश्विकाय वृश्चिक इह शेषं० ॥ ८ ॥ धन्विनंप्रति । "सर्वदेवगणार्यस्य सदनं पददायिनः । सुरेन्द्राशास्थितो धन्वी धनवृद्धिं करोतु नः ॥ १ ॥ " नमो धन्विने धन्विन् इह शेषं० ॥ ९ ॥ मकरंप्रति । “निवासः सूर्यपुत्रस्य भूमिपुत्रोच्चताकरः । मकरो दक्षिणसंस्थः संस्थाभीतिं विहन्तु नः ॥ १ ॥ " नमो मकराय मकर इह शेषं० ॥ १ ॥ कुम्भंप्रति । "ग्रशतनयस्थानं पश्चिमानन्ददायकः । कुम्भः करोतु निर्देभं पुण्यारंभं मनीषिणाम् ॥ १ ॥” नमः कुम्भाय कुम्भ इय शेषं० ॥ ११ ॥ मीनंप्रति । " कवेरुचत्वदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशापावनं मीन
For Private & Personal Use Only
॥२३३॥
v.jainelibrary.org