________________
आचारदिनकरः
॥२३०॥
BAHASKA4%954555
विविधवर्ण वा दद्याद्राज्यश्रियं स्थिराम् ॥१६॥" शय्यासनसिंहासनाद्यधिवासने-“ॐ ह्रीं लल । इदं शय्यासनं सर्व रचितं कनकादिभिः । वस्त्रादिभिर्वा काष्ठाद्यः सर्वसौख्यं करोतु मे ॥१७॥" गजतुरङ्गादिपर्याणाधिवासने-" स्थास्थीं । सर्वावष्टम्भजननं सर्वासनसुखप्रदम् । पर्याणं वर्यमत्रास्तु शरीरस्य सुखावहम् ॥१८॥" पादत्राणाधिवासने-" सः। काष्ठचर्ममयं पादत्राणं सर्वाध्रिरक्षणम् । नयतान्मां पूर्णकामकारिणी भूमिमुत्तमाम् ॥१९॥" सर्वपात्राधिवासने-"ॐ क्रां। स्वर्णरूप्यताम्रनांस्यकाष्ठमृचर्मभाजनम् । पानान्नहेतु सर्वाणि वाञ्छितानि प्रयच्छतु ॥२०॥" सवौंषधाधिवासने -" सुधासुधा । धन्वन्तरिश्च नासत्यौ मुनयोऽत्रिपुरस्सराः। अत्रौषधस्य ग्रहणे निघ्नन्तु सकला रुजः ॥२॥" मण्यधिवासने - "ॐ वं हं सः।मणयो वारिधिभवा भूमिभागसमुद्भवाः। देहिदेहभवाः सन्तु प्रभावाद्वाञ्छितप्रदाः ॥ २२ ॥” दीपाधिवासने -"ॐ जप २। सूर्यचन्द्र श्रेणिगतसर्वपापतमोपहः। दीपो मे विघ्नसंघातं निहन्यान्नित्यपार्वणः ॥२३॥" भोजनाधिवासने-"हन्तु २ । पूजादेवबलेः शेषं शेषं च गुरुदानतः। भोजनं मम तृप्त्यर्थ तुष्टिं पुष्टि करोतु च ॥२४॥" भाण्डागारकोष्ठागाराधिवासनं गृहप्रतिष्ठायां ज्ञेयम् ॥२५॥ पुस्तकाधिवासने-“ॐ ऐं। सारस्वतमहाकोशनिलयं चक्षुरुत्तमम् । श्रुताधारं पुस्तकं मे मोहध्वान्तं निकृन्ततु ॥२६॥" जपमालाधिवासने-“ॐ ह्रीं । रत्नैः सुवर्णै/जैर्या रचिता जपमालिका । सर्वजापेषु सर्वाणि वाञ्छितानि प्रयच्छतु ॥२७॥" वाहनाधिवासने-"ॐ यां यां । तुरङ्गहस्तिशकटरणमोढवाहनम् । गमने सर्वदुःखानि हत्वा सौख्यं प्रय
॥२३०॥
Jain Education inte
For Private & Personal Use Only
S
enelibrary.org