________________
Jain Education
नीनामपि दर्शनम् । करोतु प्रीतहृदया देवी विश्वंभरा ममः ॥ ४ ॥” क्षेत्रभूमौ - “ लल । समस्तरम्यवृक्षाणां धान्यानां सर्वसंपदाम् । निदामस्तु मे क्षेत्रभूमिः संप्रीतमानसा ॥ ५ ॥” सर्वोपयोग्यभूमिषु च ससु- “लल । यत्कार्यमहमत्रैकभूमौ संपादयामि च । तच्छीघ्रं सिद्धिमायातु सुप्रसन्नास्तु मे क्षितिः ॥६॥” जलाधिवासने-', वव । जलं निजोपकाराय परोपकृतयेऽथवा । पूजार्थायाथ गृह्णामि भद्रमस्तु न पातकम् ॥ ७ ॥" वन्द्यधिवासने– “रं । धर्मार्थकार्यहोमाय स्वदेहार्थाय वाऽनलम् । संधुक्षयामि नः पापं फलमस्तु ममेहितम् ||८||" चुल्लयधिवासने- “ रं । अग्न्यगारमिदं शान्तं भूयाद्विघ्नविनाशनम् । तयुक्तिपाकेवान्येन पूजिताः सन्तु साधवः ||९||" शकटयधिवासने- “रं । सर्वदेवेष्टदानस्य महातेजोमयस्य च । आधारभूता शकटी वन्हेरस्तु समाहिता ॥ १०॥ " वस्त्राधिवासने- “ श्रीं । चतुर्विधमिदं वस्त्रं स्त्रीनिवाससुखाकरम् । वस्त्रं देहधृतं भूयात्सर्वसंपत्तिदायकम् ॥ ११॥" भूषणाधिवासने– “ ॐ श्रीं । मुकुटाङ्गदहाराहाराः कटक पुरे । सर्वभूषणसंघातः श्रियेऽस्तु वपुषा धृतः ॥ १२ ॥ " माल्याधिवासने– “ श्रीं । सर्वदेवस्य संतृप्तिहेतु माल्यं सुगन्धि च । पूजाशेषं धारयामि स्वदेहेन त्वदर्चना ॥ १३ ॥ गन्धाधिवासने– “
। कर्पूरागरुकस्तूरी श्रीखण्डशशिसंयुतः । गन्धपूजादिशेषो मे मण्डनाय सुखाय च ॥ १४ ॥” ताम्बूलाधिवासने- “श्रीं । नागवल्लीदलैः पूगकस्तूरीवर्णमिश्रितैः । ताम्बूलं मे समस्तानि दुरितानि निकृन्ततु ॥१५॥” चन्द्रोदयच्छत्रयोरधिवासने- “ श्रीं ह्रीं । मुक्ताजालसमाकीर्ण छत्रं राज्यश्रियः समम् । श्वतं
For Private & Personal Use Only
v.jainelibrary.org