________________
आ. दि. ३९
Jain Edi
૧૧૫
दीपनैवेद्यदानं । अभिषेकवासक्षेपरक्षामन्त्रो यथा- क्षं यां रां चं चुरु २ चिरि २ बनदैवत अत्रावतर २ तिष्ठ २ श्रियं देहि वाञ्छितदाता भव भव स्वाहा । ततः साधुपूजनं संघपूजनं नन्द्यावर्तविसर्जनं च पूर्ववत् । वाटिकारामवनदेवताप्रतिष्ठास्वयमेव विधिः ॥ इति प्रतिष्ठाधिकारे वृक्षवनदेवताप्रतिष्ठा संपूर्णा ॥ १८ ॥
अथाहालकादिप्रतिष्ठाविधिः ॥ ९ ॥ स चायं अहालके स्थण्डिले नवबद्धपद्यायां जिनबिम्बं संस्थाप्य वृहस्नात्रविधिना स्नात्रं कुर्यात् । लघुनन्द्यावर्तस्थापनं पूजनं होमश्च पूर्ववत् । ततो जिनस्नात्रोदकेन सर्वत्र अट्टालकस्थण्डिलपद्यादिप्रोक्षणं वासक्षेपश्च । प्रोक्षणवासक्षेपमन्त्रो यथा - ह्रीं स्थां २ स्थीं २ भगवति भूमिमातः अत्रावतर २ पूजां गृहाण २ सर्वसमीहितं देहि २ स्वाहा । अनेनैव मन्त्रेण चतुर्विंशतितन्तुसूत्रेण रक्षाकरणम् । गन्धपुष्पधूपदीपनैवेद्यदानं पूर्ववत् । नन्द्यावर्तविसर्जनं पू० । ततोऽनन्तरं साधुपूजनं संघपूजनं च ॥ इति प्रतिष्ठाधिकारे अट्टालकादिप्रतिष्ठा संपूर्णा ॥ १९ ॥
अथ दुर्गयंत्रप्रतिष्ठाविधिः ॥ २० ॥ सचायम् । नवकृते दुर्गे पूर्व चतुशितितन्तुसूत्रेण बहिरन्तः शान्तिमंत्रेण रक्षां कुर्यात् । ततस्तन्मध्ये ईशानदिग्भागे जिनबिम्बं न्यस्य बृहत्स्नात्रविधिना स्नात्रं विधाय बृहद्द - शवलय- नन्द्यावर्तस्थापनं होमं च विम्बप्रतिष्ठावत्कुर्यात् । ततः शान्तिकं पौष्टिकं च यथाविधि कुर्यात् । ततः शान्तिकपौष्टिककलशजलं गृहीत्वा अन्तर्बहिश्च धारां दद्यात् । प्रतिकपिशीर्ष प्रतिकोष्टकं वासक्षेप च कुर्यात् । धारादानवासक्षेपमंत्रो यथा - ह्रीं श्रीं क्लीं ब्लूं दुर्गे दुर्गमे दुःप्रधर्षे दुःसहे दुर्गे अवतर २ तिष्ठ २
For Private & Personal Use Only
elibrary.org