________________
आचारदिनकरः
॥२२८॥
SHREERS
बिम्बं संस्थाप्य बृहत्स्नात्रविधिना स्नात्रं कुर्वन्ति । ततो जलाशये पञ्चगव्यं निक्षिप्य जिनस्नात्रोदकं निक्षिपेत् । ततो जलाशयाग्रे लघुनन्द्यावर्तस्थापनं पूर्ववत् । किन्तु मध्ये नन्द्यावर्तस्थाने वरुणस्थापनं । ततस्तेषां सर्वेषां पूजा पूर्ववत् । विशेषेण त्रिवेलं पूजा वरुणस्य। ततस्त्रिकोणाग्निकुण्डेऽमृतमधुपायसनानाफलैः प्रत्येक नन्द्यावर्तस्थापना। देवताभिधानःप्रणवपूर्वकैः स्वाहान्तैः होमः। किंतु वरुणस्याष्टोत्तरशताहुतयः पृथक् । तत आहतिशेषं सर्व जलं जलाशये निक्षिपेत् । ततो गुरुः पञ्चामृतभृतकलशं करे गृहीत्वा तजलाशयमध्ये धारा क्षिपन् इति मन्त्रं पठेत् । ॐ वं वं वं वं वं वलप वलिप् नमो वरुणाय समुद्रनिलयाय मत्स्यवाहनाय नीलांबराय अत्र जले कलाशये वा अवतर २ सर्वदोषान हर २ स्थिरीभव २ अमृतनाथाय नमः इति सप्तवेलं पठेत् । ततोऽनेनैव मन्त्रेण पञ्चरत्नं न्यसेत् । वासक्षेपः । ततो देहलीस्तम्भभित्तिद्वारच्छदि अङ्गण प्रतिष्ठा गृहवत् । तप्समीपे प्रतिष्ठासूचकयूपस्तम्भं प्रतिष्ठादौ स्थिरायै नमः इति मन्त्रेण न्यसेम् । तथा च वापीकूपतडागप्रवाहकुल्यानिझरतडागिकाविवरिकाधर्मजलाशयनिमित्तजलाशयेष्वियमेव प्रतिष्ठा ॥ इति जलाशयप्रतिष्ठा संपूर्णा ॥१७॥
अथ वृक्षप्रतिष्ठाविधिः॥१८॥सचायं स्ववर्धिते पुरातने वा आश्रयणीयवृक्षेप्रतिष्ठा विधीयते । तन्मूले जिनबिम्ब न्यस्य बृहत्स्नात्रं कुर्यात् । लघुनन्यावर्तस्थापनं पूजनं होमश्च पूर्ववत् । ततो जिनस्नात्रोदकेन तीर्थजलमिश्रेण अष्टोत्तरशतकलौः वृक्षमभिषिश्चेत् । वासक्षेपश्च कौसुम्भसूत्रेण रक्षाबन्धनं च गन्धपुष्पधूप
॥२२८॥
Jan Education
For Private & Personal Use Only
www.jainelibrary.org