________________
PRASTRA
मंत्री संक्षेपेण संपद्यते । शेषो विधिग्रहवत् । तदैवतमंत्राः शान्त्यधिकारे कथयिष्यन्ते । तारकाणां तु प्रतिष्ठा ॐ ह्रीं श्रीं अमुकः अमुकतारके इहावतर २ तिष्ठ २ आराधककृतां पूजां गृहाण २ स्थिीभव स्वाहा ।
अनेन मंत्रेण वासक्षेपः । सर्वतारकाणां शेषो विधिग्रहवत् ॥ इति प्रतिष्ठाधिकारे सूर्यादिनवग्रहप्रतिष्ठा | संपूर्णा ॥ १४॥
अथ चतुर्णिकायदैवतमूर्तिप्रतिष्ठाविधिः॥१५॥ सचायं भुवनपतीनां दशविधानां विंशतीन्द्राणां व्यन्तराणां षोडशविधानां वा त्रिंशदिन्द्राणां वैमानिकानां द्वादशकल्प नवौवेयक पञ्चाणुत्तरभवानां दशेन्द्राणां तत्तद्वर्णकाष्ठधातुरत्नघटितमूर्तीनामयं प्रतिष्ठाविधिः । चैत्ये वा गृहे वा पूर्व बृहत्स्नात्रविधिना जिनस्नात्रम् । ततो मिलितेन पञ्चामृतेन दैवतप्रतिमास्नात्रम् । ततः पञ्चविंशतिवस्तुवासैः वासक्षेपः धूपदानं यक्षकदमलेपनं पूष्पादिपूजा । प्रतिष्ठामंत्रो यथा-ॐ ह्रीं श्रीं क्लीं क्लूं कुरु २ तुरु २ कुलु २ चुरु २ चुलु २ चिरि २चिलि २ किरि २ किलि २ हर २ सर २ हूं सर्वदेवेभ्यो नमः अमुकनिकायमध्यगत अमुकजातीय अमुकपद अमुकव्यापार अमुकदेव इह मूर्तिस्थापनायां अवतर २ तिष्ठ २:चिरं पूजकदत्तां पूजां गृहाण २ स्वाहा । इति प्रतिष्ठामंत्रः। निकायस्थाने भुवनपतिव्यन्तरवैमानिककथनं जातिस्थाने भुवनपतिष्वसुरादिकथनं व्यन्तरेषु पिशाचादिकथनं वैमानिकेषु सौधर्मभवादिकथनं पदस्थाने इन्द्रसामानिकपार्षद्यत्रायस्त्रिंशअङ्गरक्षलोकपालानिकप्रकीर्णकाभियोगिककैल्बिषिकलौकान्तिकज़म्भकादिकथनं कर्मकथने तद्गुणकृतकीर्तनवर्णआयुधपरि
SAGACASGANGACASARAKAR
national
For Private & Personal Use Only
www.jainelibrary.org