SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ RASHIRSASAR मूतौं यतिस्तूपे वा इयं युक्तिः। आचार्यमूर्तिस्तूपयोः- नमो आयरियाणं भगवंताणं णाणीणं दंसणीणं पंचविहायारसुडिआणं इह भगवन्तो आयरिया अवयरन्तु साहुसाहणी सावयसावियाकयं पूअं पडिच्छन्तु सर्वसिद्धिं दिसन्तु स्वाहा । अनेन मंत्रेण त्रिर्वासक्षेपः। उपाध्यायमूर्तिस्तूपयोः-ॐ नमो उवज्झायाणं भगवन्ताणं वारसंगपढगपाढगाणं सुअहराणं सज्झायज्झाणसत्ताणं इह उवज्झाया भगवन्तो अवयरन्तु साहु० शेषं पूर्ववत् । अनेन मंत्रेण त्रिर्वासक्षेपः। साधुसाध्वीमूर्तिस्तुपयोः-ॐ नमो सव्वसाहणं भगवन्ताणं पञ्चमहव्वयधराणं पञ्चसमियाणं तिगुत्ताणं तवनियमनाणदंसणजुत्ताणं मुक्खसाहगाणं साहणो भगवन्तो इह अवयरन्तु भगवईओ साहुणीओ इह अवयरन्तु साहसा. शेषं पूर्ववत् ।। इति प्रतिष्ठाधिकारे यतिमूर्तिप्रतिष्ठा संपूर्णा ॥ १३ ॥ अथ ग्रहप्रतिष्ठाविधिः॥१४॥ स चायं पूर्वप्रासादे वा गृहे वा बृहत्स्नात्रविधिना जिनमूर्ति स्नपयेत् । ततः समकालप्रतिष्ठार्थ नवापि ग्रहमूर्तीः स्थापयेत् । उपयुक्तत्वात् एकस्य द्वयोः त्रयाणां चतुःपञ्चानां वा कार्यापेक्षया मूर्तिस्थापनं कुर्यात् । ग्रहाणां काष्ठमयमूर्तित्वे क्रमेणादित्यादीनां रक्तचन्दनश्रीखण्डखदिरनिम्बकदम्बधातकीशेफालोवब्बूलबदरीकाष्ठमय्यो मूर्तयो भवन्ति । तेषां च धात्वपेक्षया क्रमेण सूर्यादीनां ताम्ररूप्यत्रपुसीसस्वर्णरूप्यलोहकांस्यरीरीमय्यो मूर्तयो भवन्ति । तेषां च कुण्डलमुद्रिकादौ स्थापने पद्मरागमुक्ताफलप्रवालमरकतपुष्परागवज्रइन्द्रनीलगोमेदवैडूर्यैः स्थापनाः। तासां मूर्तीनां स्थापनानां च एक एव RASHREARSHRESIRESSASARSA Jain Education nal For Private & Personal Use Only Maiw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy