SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर ॥२२५॥ देवाय अमुकदेव्यै वा नमः इति मंत्रन्यासः। वस्त्रमये पट्टमये लिखितचित्रमूतौं लिखितयन्त्रे वा समवसरणे वा भरिते वा तल्लिखितमंत्रपाठेन तद्देवगर्भनमस्कारेण वा वासक्षेपमात्रेण प्रतिष्ठा पूर्यते । अत्र परमार्थेन स्नपनवर्जितेषु पट्टादिषु दर्पणबिम्बेषु स्नपनादि विधेयम् । स्नपनादिरहिता प्रतिष्ठा अप्रमाणा ।। इति प्रतिष्ठाधिकारे मंत्रपटप्रतिष्ठा संपूर्णा ॥११॥ ____ अथ पितृमूर्तिप्रतिष्ठाविधिः ॥१२॥ सचायम् । गृहिणां पितृमूर्तयः प्रासादस्थापिताः शैलमय्यो भवन्ति । गृहपूजितास्तु धातुमय्यः पट्टिकास्थापिता वा पट्टलिखिता वा भवन्ति । कण्ठपरिधेयाश्छिच्छरिकारूपा नामाडिता वा भवन्ति तासां सर्वासां एक एव प्रतिष्ठाविधिः। बृहत्स्नात्रविधिना जिनस्नात्रं विधाय तत्स्नात्रोदकेन त्रिविधामपि पितृमूर्ति स्नपयेत् । ततो गुरुर्वासक्षेपेण तन्मूर्तिषु तन्मंत्रन्यासं कुर्यात् । प्रतिष्ठामंत्रो यथा-ॐ नमो भगवते अरिहंते जिणस्स महाबलस्स महाणुभावस्स सिवगइगयस्स सिद्धस्स घुद्धस्स अक्खलिअपभावस्स तद्भक्तो अमुकवर्णः अमुकज्ञातीयः अमुकगोत्र अमुफपौत्र अमुकपुत्रः अमुकजनक इह मूतौं अवतरतु २ सन्निहितः तिष्ठतु २ निजकुल्यानां पुत्रभ्रातृव्यपौत्रादीनां जिनभक्तिपूर्वकं दत्तं आहारं च वस्त्रं पुण्यकर्म प्रतीच्छतु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं समीहितं करोतु स्वाहा । अनेन त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा । ततः साधर्मिकवात्सल्यं संघपूजा च ॥ इति प्रतिष्ठाधिकारे पितृमृतिप्रतिष्ठाविधिः ॥ १२॥ अथ यतिमूर्तिप्रतिष्ठाविधिः॥१३॥ स चायम् । प्रासादप्रतिष्ठितायां पोषधागारप्रतिष्ठितायां वा साधु ॥२२५॥ Jain Education Internal For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy