SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ U SHAHARA* सौभाग्य ? प्रवचन २ परमेष्ठि ३ कृताञ्जलि ४ सुरभि ५ चक्र ६ गरुड ७ आरात्रिक ८ गणधररूपेण मुद्राष्टकेन मंत्राधिराजस्य पञ्जप्रस्थानस्य जापं कृत्वा प्रविश्यमानश्वासेन सकलमूलमंत्रेण वारत्रयं धृपाद्युत्क्षेपपूर्वकं वस्त्रमपनीय प्रतिष्ठा कार्या। पूर्व वासाः पञ्चविंशतिद्रव्यमया देवीप्रतिष्ठाधिकारोक्ता द्वादशमुद्राभिः मंत्रणीयाः। ततः पूर्वलब्धिपदानि पठित्वा वासक्षेपो विधेयः । ततः ॐ वग्गु इत्यारभ्य एकविद्यापीठेन सप्तवेलं वासक्षेपेण सर्वाक्षाणां प्रतिष्ठा। ततो द्वितीयविद्यापीठेन बहिर्वलयस्य चतुःपरमेष्ठियुतस्य पञ्चपरमेष्ठियुतस्य पञ्चवेलं वासक्षेपेण प्रतिष्ठा । ततस्तृतीयविद्यापीठेन मध्यवलयस्य त्रिवेलं वासक्षेपेण प्रतिष्ठा । ततश्चतुर्थवि द्यापीठेन मध्यवलयस्य मुख्यपरमेष्ठियुतस्य एकवेलं वासक्षेपेण प्रतिष्ठा । ततो मूलमंत्रस्य शतपत्रपुष्पैः शाल्यक्षतर्वा अष्टोत्तरशतजापः । ततः समवसरणस्तोत्रेण परमेष्ठिमंत्रस्तोत्रेण चैत्यवन्दनं । ततो दिक्पालविसर्जनं पूर्ववत् । ततः ॐ विसर २ प्रतिष्ठादेवते स्वस्थानं गच्छ २ स्वाहा । अनेन प्रतिष्ठादेवताविसर्जनम् । अत्र समवसरणं पूजनं गोप्यतया नोक्तं सूरिमंत्रकल्पादवसेयम् ॥ इति प्रतिष्ठाधिकारे देवतावसरसमवसरणप्रतिष्ठा संपूर्णा ॥१०॥ अथ मंत्रपट्टप्रतिष्ठाविधिः ॥११॥ स चायम् । तत्र मंत्रपट्टा धातुमयाः स्वर्णरूप्यताम्रघटिताः काष्ठमया वा मिलितेन पञ्चामृतेन संस्नाप्य गन्धोदकेन शुद्धोदकेन प्रक्षाल्य यक्षकर्दमेनानुलिप्य षञ्चविंशतिवस्तुरूपवासक्षेपेण प्रतिष्ठा करणीया। वासक्षेपमंत्रन्यासो यथालिखितमंत्रपाठेनैव । उत्कीर्णमूतौं च ॐ ह्रीं अमुक ***** ___Jain Education ११3 UNU a l For Private & Personal use only ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy