________________
आचार
दिनकरः
॥ २२४ ॥
Jain Edtication
अथ देवतावसरप्रतिष्ठाविधिः ॥ १० ॥ स चायम् । देवतावसरसमवसरण प्रतिष्ठायां विम्बप्रतिष्ठावल्लग्नं भूमिशुद्धिश्च तद्वत् । तत्र पोषधागारे सुविलिप्ते विशिष्टोल्लोचशोभिते सूरिः सुस्नातः कङ्कणमुद्रिकाहस्तः सदशाव्यङ्गनव्य वस्त्रप्रावरणः पवित्रसुखासनासीनः समवसरणपूजनं विधिवत् भूमिशुद्धिस्नानं सकलीकरणं कुर्यात् । स च विधिः सूरिमंत्रकल्पात् गुर्वागमादवसेयः । गोप्यत्वादिह नोच्यते । तत उपलिप्तभूमौ सरिनिषेधासीनः पवित्रचतुष्किकायां सुवर्णरूप्यताम्रकांस्यस्थालोपरि गङ्गासागर सिन्धुसागराभ्यां तत्कल्पोक्तfafaar समानीतान् अक्षान् सूरिहस्तप्रमाणेन सार्धमुष्टिप्रयप्रमाणान् सिंहव्याघ्रीहंसीकपर्दिका सहितान् संस्थापयेत् । तदुपरि अन्तरन्तः क्रमसंकुचितमणिवलयत्रयं स्थापयेत् । तत्र गच्छरीतिः केषांचिद्गच्छे वलयानि न भवन्ति । केषांचिद्रच्छान्तरे तानि रूप्यसुवर्णमणिमयगोलिकाप्रोतानि भवन्ति । अस्मद्गच्छे वलयत्रयं स्फटिकमयमेकं तदुपरि मध्ये शङ्खाक्षाश्चतुर्दिक्षु शङ्खाक्षस्थापनं च मध्ये महत्तरः सूर्यकान्तमणिः चतुदिक्षु कनीयांसो मणयः क्रमेण बृहदक्षोपरि स्थाप्याः तन्मध्ये सार्धत्र्यङ्गुलः स्फटिकमयः स्थापनाचार्यः स्थाप्यः । ततः सूरिविम्बप्रतिष्ठा वद्दिक्पालानाहूय स्वस्य शुचिविद्या सकलीकरणं च पूर्ववत्कुर्यात् । ततो दक्षिणां रौद्रदृष्टया मध्याङ्गुलिहयोद्धकरणेन है ह्रींक्षी सर्वोपद्रवं समवसरणस्य रक्ष २ स्वाहा इति रक्षां कृत्वा सर्वे समवरसरणं दुग्धेन स्नपयेत् यक्षकर्दमेन विलेपयेत् वस्त्रेणाच्छादयेत् । ततो विद्यापीठेन वारत्रयं वास क्षेपं कुर्यात् । इत्यधिवासना ॥ ततः प्रतिष्ठालग्रे संप्राप्ते गुरुणा हेमकङ्कणमुद्रिका श्वेताव्यङ्गवस्त्र विभूषितेन
For Private & Personal Use Only
॥२२४॥
v.jainelibrary.org