________________
पसव्यहस्तयुग । सव्वकर मोदका भयघर या वक वर्णपीतलसिक ॥ १ ॥ मूषकवाहनपीवरजङ्घाभुजबस्तिलम्बिगुरुजठरे । वारणमुखैकरद वरद सौम्य जयदेव गणनाथ ॥ २ ॥ सर्वाराधनसमये कार्यारम्भेषु मङ्गलाचारे । मुख्ये लम्भे लाभे देवैरपि पूज्यसे देव || ३ |" माणुघणादीनां श्राद्धकुलदेवतानां एवमेव प्रतिष्ठा ब्रह्मशा न्तिमन्त्रेण ॥ इति प्रतिष्ठाधिकारे गणपत्यादिप्रतिष्ठा संपूर्णा ॥ ८ ॥
अथ सिद्धमूर्तिप्रतिष्ठाविधिः ॥ ९ ॥ सचायम् । तत्र सिद्धाः पञ्चदशभेदाः जिनशासने । तत्र स्वलिङ्गसिद्धानां स्त्रीनरनपुंसकरूपाणां पुण्डरीकब्राह्मीप्रभृतीनां परलिङ्गसिद्धानां वल्कलचीरीप्रभृतीनां स्त्रीनरनपुंसकरूपाणां मत्स्येन्द्रगोरक्षादीनां प्रतिष्ठाविधिरेक एव । तत्र यदि तेषां प्रतिष्ठां गृही कारयति तदा तद्गृहे शान्तिकं पौष्टिकं कुर्यात् । ततो बृहत्स्नात्रविधिना स्नात्रं विधाय प्रतिष्ठां कुर्वीत । ततो मूलमंत्रेण सिद्धमूर्तेः पञ्चामृतस्नात्रं विधाय ततो मूलमंत्रेणैव वासक्षेपं कुर्यात् त्रिस्त्रिः सर्वाङ्गेषु । मूलमंत्रो यथा - अंआंहीं नमो सिद्धाणं बुद्धाणं सर्वसिद्धाणं श्रीआदिनाथाय नमः तथा तत्तल्लिङ्गसिद्धानां प्रतिष्ठायां तत्तल्लिङ्गधराणां पूजनं तत्तद्वस्तुपात्र भोजनदानं । यदि यतयः प्रतिष्ठां कुर्वन्ति तदा मूलमंत्रेण वासक्षेपादेव सिद्धप्रतिष्ठा पूर्यते । जिण १ अजिण २ तित्थ ३ अतित्थ ४ हत्थी ५ गिहू ६ अन्न ७ सलिंग ८ नर ९ नपुंस १० पत्तेय ११ बुद्धाय १२ बुद्धवोहि १३ क्क १४ णिक्काय १५ इति सिद्धभेदाः पञ्चदश ॥ इति प्रतिष्ठाधिकारे सिद्धमूर्तिप्रतिष्ठा संपूर्णा ॥ ९ ॥
Jain Education national
For Private & Personal Use Only
jainelibrary.org