SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥२२३॥ GLOBO CHOGRAPHICROCHIE -ॐ क्षां क्षीं झु झै क्षौं क्षः क्षेत्रपालाय नमः अयमेव मूलमन्त्रः। ततः एकान्तिकं विधाय गुरुर्वासक्षेपणं मूलमन्त्रेण सर्वाङ्गेषु त्रिस्त्रिः प्रतिष्ठां कुर्यात् । ततो याज्याः तिलचूर्ण करम्बयूषकृशराबकुललपनश्रीभिः तत्पुरो नैवेद्यं ढौकयेत् । कुङ्कुमतैलसिन्दूररक्तपुष्पैस्तन्मूर्ति पूजयेत् । क्षेत्रपालबटुकनाथकपिलनाथहनुमन्नारसिंहादिवीरपुरपूजितदेशपूजितानां एकएव प्रतिष्ठाविधिः किंतु गृहक्षेत्रपालस्य गृहे कपिलगौरकृष्णादीनां प्रासादेबटुकनाथस्य श्मशाने हनुमतः पुरपरिसरे नारसिंहादीनां पुरपूजितानां देशपूजितानां नागादीनां गूगाप्रभृतीनां तत्तत्स्थानेषु प्रतिष्ठार्थ मन्त्राश्च तत्तदाम्नायतो ज्ञेयाः। मूलमन्त्रैरेव प्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे । क्षेत्रपालादिप्रतिष्ठाविधिः ॥७॥ ____ अथ गणपतिप्रतिष्ठाविधिः ॥ ८॥ स चायम् । तत्र गणपतेर्मूर्तयः प्रासादस्थाः पूजनीयाः धारणीयाश्च विद्यागणेशाः द्विभुजचतुर्भुजषड्भुजनवभुजाष्टादशभुजाष्टोत्तरशतभुजरूपाः गुरूपदेशविशेषेण बहुविधा भवन्ति । तासां तिसृणामेकैव प्रतिष्ठा । तत्र गणपतिकल्पे तन्मूर्तयः स्वर्णरूप्यताम्ररीरीकाचस्फटिकप्रवालपद्मरागचन्दनरक्तचन्दनश्वेतार्कमूलप्रभृतिवस्तुमय्यो विविधा विवधफलदायिन्यः सुखसंतुष्ठा भवन्ति तासां प्रभावो गूढो गुर्वांगमादवसेयः । प्रतिष्ठा चोक्तपूर्वमूलमंत्रेण माक्षिकस्नानम् । मूलमंत्रो यथा-3 गां गी गूं मैं गौं गः गणपतये नमः। ततो वासस्थाने सिन्दूरेणैव प्रतिष्ठा सर्वाङ्गेषु निस्त्रिः मूलमंत्रेणैव । ततोऽष्टोत्तरशतमोदकढौकनम् । एवं प्रतिष्ठां विधाय अञ्जलिं कृत्वा स्तुतिं पठेत् । यया-"जयजय लम्बोदर परशुवरदयुक्ता ॥२२३॥ Jain Education int onal . For Private & Personal Use Only ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy