SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ KEKAR जयाम्यहं देव्याः प्रतिमा विघ्नहानये ॥८॥” एवं स्नात्रपञ्चकं प्रमार्जनत्रयं कृत्वा देव्याः पुरः स्त्रीजनोचितं सर्व वस्त्रभूषणगन्धमाल्यमण्डनादि ढोकयेत् । नैवेद्यं बहुप्रकारं च । ततः प्रतिष्ठायां परिपूर्णायां मण्डलविसर्जनं नन्द्यावर्तविसर्जनवत् । ततः कन्यापूजनं गुरुभ्यो दानं महोत्सवः संघपूजा महाप्रतिष्ठावत् । इयं च प्रतिष्ठादेवीनां प्रासादसंप्रदायकुलदेवीनां त्रिविधानामपि पूजनं गुर्वागमात् कुलाचाराज्ज्ञेयम् । ग्रंथविस्तरभयात् आगमस्य अप्रकाश्यत्वात् नोपदर्शितम् । यदुक्तम्- "इदमागमसर्वस्वं गोपनीयं प्रयत्नतः । गोपनाजायते सिद्धिः संशयश्च प्रकाशनात् ॥१॥” तथा सर्वदेवानां प्रतिष्ठा तत्तद्देवीमन्त्रेण तत्तत्कल्पोक्तेन गुरूपदिष्टेन वा विधेया। शेषं कर्म सर्वदेवीप्रतिष्ठासु सदृशम् । यासां च देवीनां अप्रसिद्धत्वात् कल्पादर्शनात् गुरूपदेशाभावात् नामोद्दिष्टो मन्त्रो न ज्ञायते तासां अम्बामन्त्रेण वा चण्डीमन्त्रेण वा त्रिपुरामन्त्रेण वा प्रतिष्ठा विधेया । अत्र देवीप्रतिष्ठायां शासनदेवीगच्छदेवीकुलदेवीपुरदेवीभुवनदेवीक्षेत्रदेवीदुर्गादेवीनां सर्वासामेक एव प्रतिष्ठाविधिः ॥ इति प्रतिष्ठाधिकारे देवीप्रतिष्टा संपूर्णा ॥६॥ .. अथ क्षेत्रपालादिप्रतिष्टाविधिः॥७॥ स चायम् । पूर्व तत्प्रतिष्ठाकारयितुग्रहशान्तिकं पौष्टिकं च कुर्यात् । ततो बृहत्स्नात्रविधिना जिनस्नात्रं विधाय क्षेत्रपालादिमूर्ति जिनचरणाग्रे स्थापयेत् । प्रासादे वा गृहे वा क्षेत्रपालस्य द्विधा मूर्तिः कायरूपा वा लिङ्गरूपा वा प्रतिष्ठाविधिरेकस्तयोः। ततः पूर्वोक्तवेदीमण्डलं स्थापआ. दि.३८ 13 येत् । तत्पूजनं च पूर्ववत् । ततो मिलितेन पञ्चामृतेन क्षेत्रपालमूलमन्त्रेण तन्मूतौं स्नात्रम् । मूलमन्त्रो यथा For Private & Personal Use Only SHRSS5HRSS C . ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy