________________
RRIERREARRA
सास्तु लक्ष्म्यै ॥१॥" अनेन वृ०॥३॥ पुनः-"दैत्यच्छेदोद्यतायां परमपरमतक्रोधयोधप्रयोधक्रीडानिीडपीडाकरणमशरणं वेगतो धारयन्त्या। लीलाकीलाकर्पूरजनिनिजनिजक्षुत्पिपासाविनाशः क्रव्यादामास यस्यां विजयमविरतं सेश्वरा वस्तनोतु ॥ १॥” अनेन वृ०॥४॥ पुन:-"लुलायदनुजक्षयं क्षितितले विधातुं सुखं चकार रभसेन या सुरगणैरतिप्रार्थिता । चकार रभसेन या सुरगणैरतिप्रार्थिता तनोतु शुभमुत्तम भगवती प्रसादेन सा ॥१॥" अनेन वृत्तेन ॥५॥ पुनः-“सा करोतु सुखं माता बलिजित्तापवारिणी । प्राप्यते यत्प्रसादेन बलिजित्तापवारिणी ॥१॥" अनेन वृ०॥६॥ पुन पु०-"जयन्ति देव्याः प्रभुतामतानि निरस्तनिःसंचरतामतानि । निराकृताः शत्रुगणाः सदैव संप्राप्य यां मंच जयै सदैव ॥१॥" अनेन वृ०॥ ७॥ पुन:--"सा जयति यमनिरोधनकी संपत्कारी सुभक्तानाम् । सिद्धिर्यस्लेवायामत्यागेऽपि हि सुभक्तानाम् ॥ १॥" अनेन वृ०॥ ८॥ एवमष्ट पुष्पात्रलयः प्रक्षिप्यन्ते । ततो देवीपुरतो भगवत्या मण्डलं | संस्थापयेत् । तस्य चायं विधिः । तत्र प्रथमं षट्कोणचक्रं लिखेत् । तन्मध्ये भगवती सहस्रबाहुं नानाप्रहरणधारिणी शुक्लाम्बरां सिंहवाहनां लिखेत् संस्थापयेत् कल्पयेता। ततः षट्कोणेषु आदितः प्रदक्षिणक्रमेण । ॐ ह्रीं जम्भे नमः १॥ ॐ ह्रीं जम्भियै नमः २॥ ॐ ही स्तम्भे नमः ३॥ ॐ ह्रीं स्तम्भिन्यै नमः ४॥ ॐ ह्रीं मोहे नमः ५॥ ॐ हीं मोहिन्यै नमः ६॥ ततो बहिर्वलयं विधाय अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण ।
RECECACCORCECAU
R
१ प्रबोध इति पाठः।
Jain Education
HD
anal
For Private & Personal Use Only
Dainw.jainelibrary.org