SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Jain Education In घिना जिनस्नात्रं मुकुटमंत्रेण तोरणे द्वादशमुद्राभिर्मन्त्रितवासक्षेपः । मुकुटमंत्रो यथा - अआइईउऊऋऋ इत्यादिहकारपर्यन्तं नमो जिनाय सुरपतिमुकुटकोटिसंघट्टितपदाय इति तोरणे समालोकय २ स्वाहा || इति तोरणप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे परिकर प्रतिष्ठाविधिः संपूर्णः ॥५॥ अथ देवीप्रतिष्ठाविधिः ॥६॥ स चायम् । तत्र देव्यस्त्रिधा प्रासाददेव्यः १ संप्रदायदेव्यः २ कुलदेव्यश्च ३। प्रासाददेव्यः पीठोपपीठेषु क्षेत्रोपक्षेत्रेषु गुहास्थिता भूमिस्थिताः प्रासादस्थिता वा स्वयंभूतरूपा वा मनुष्यनिर्मितरूपा वा । संप्रदायदेव्यः अम्बासरस्वतीत्रिपुराताराप्रभृतयो गुरूपदिष्टमन्त्रोपासनायाः । कुलदेव्यः चण्डी चामुण्डाकण्टेश्वरीसत्यकासु शयनाव्याघ्रराजीप्रभृतयः एतासां प्रतिष्ठा तुल्यैव । तत्र प्रतिष्ठाकारयितुर्ग्रहशान्तिकं पौष्टिकं च कुर्यात् । ततः प्रासादे गृहे वा बृहत्स्नात्रविधिना स्नात्रं । देवीप्रासादे ग्रहप्रतिमा नीत्वा स्नात्रं कुर्यात् । ततः पूर्वोक्तरीत्या भूमिशुद्धिं विधाय पञ्चरत्नं तत्र न्यस्य तदुपरि कदम्बकाष्ठपीठ संस्थाप्य तदुपरि देवीप्रतिमां न्यसेत् । स्थिरप्रासाददेवीप्रतिमां तु कुलपीठोपरि पञ्चरत्नन्यासपूर्वकं न्यसेत् । ततः कुडव २ मात्रमिलितैः सर्वान्नैर्देवीप्रतिमां संवर्धयेत् । मन्त्रो यथा - ॐ श्रीं सर्वान्नपूर्णे सर्वान्ने स्वाहा । ततः स्नात्रकारचतुष्टयं पूर्वोक्तलक्षणं प्रगुणीकुर्यात् । सूरिणा आत्मा स्नात्रकाराश्च मुद्राकङ्कणसहि तसदशवस्त्रसहिता विधेयाः । ततः स्वस्य तेषां च व्यङ्गरक्षान्यासो यथा - ह्रीं नमो ब्रह्माणि हृदये । For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy