SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥२१॥ अङ्गुलियो करणेन रौद्रदृष्टया वामहस्तचुलुकेन जलाच्छोटनं अक्षतभृतपात्रदानम् । ततः ॐ ह्रीं श्रीं जयन्तु जिनोपासकाः सकला भवन्तु स्वाहा । इति मंत्रेण परिकरस्य गन्धाक्षतपुष्पधूपदीपनैवेद्यैः पूजनं सदशवस्त्रेणाच्छादनं ततश्चतसृभिः स्तुतिभिश्चैत्यवन्दनं ततः शान्ति श्रुतक्षेत्रभुवनशासनवैयावृत्तकरप्रतिष्ठादेवताकायोत्सर्गाः स्तुतयः पूर्ववत् । ततः संप्राप्तायां लग्नवेलायां द्वादशभिर्मुद्राभिः सूरिमंत्रेण वासमभिमंत्र्य सर्वजनं दूरतः कृत्वा एभिर्मन्त्रैर्वासक्षेपं विदध्यात् । मंत्रो यथा-ॐ ह्रीं श्रीं अप्रतिचक्रे धर्मचक्रायनमः इति धर्मचक्रे वासक्षेपस्त्रिः। ॐ घृणिचद्रां ऐं क्षौं ठः ठः क्षांक्षी सर्वग्रहेभ्यो नमः इति ग्रहेषु वासक्षेपस्त्रिः। ही क्षों आधारशक्तिकमलासनाय नमः इति सिंहासने वासक्षेपस्त्रिः। ॐ ह्रीं श्रीं अर्हद्भक्तेभ्यो नमः इति अञ्जलिकरद्वये वासक्षेपस्त्रिस्त्रिः। ॐ ह्रीं चं चामरकरेभ्यो नमः इति चामरकरद्वये वासक्षेपरिस्त्रिः। ॐ ह्रीं विमलवाहनाय इति गजद्वये वासक्षेपस्त्रिस्त्रिः। पुर २ पुष्पकरेभ्यो नमः इति मालाधरद्वये वासक्षेपस्त्रिस्त्रः। ॐ श्रीं शङ्खधराय नमः इति शङ्खधरे वासक्षेपस्त्रिस्त्रिः। ॐ पूर्णकलशाय नमः इति कलशे वासक्षेपस्त्रिस्त्रिः । ततः अनेकफलनैवेद्यढोकनं । पुनर्जिनस्नात्रं बृहत्स्नात्रविधिना ततश्चैत्यवन्दन प्रतिष्ठादेवताविसर्जनं कायोत्सर्ग चतुर्विशतिस्तवचिंतनं भणनं च नन्द्यावर्तविसर्जन पूर्ववत् । अष्टाहिकामहोत्सवः संघपूजनं दीनमागणपोषणं । जलपट्टप्रतिष्ठायां तु जलपट्टोपरि बृहन्नन्द्यावर्तस्थापनं च पूर्ववत् । जलपट्टे क्षीरस्नानं पञ्चरत्ननिक्षेपः वस्त्रमंत्रेण वासक्षेपः नन्द्यावर्तविसर्जनं ॥ इति कलशप्रतिष्ठा ॥ ॥ तोरणप्रतिष्ठायां तु बृहत्स्नाक्षवि ENTERPRECICIENCYCAR ॥२१८॥ Jain Education International For Private & Personal use only AM.jainelibaary.orga
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy