________________
Jain Educati
द्राढौकनं । ततो वासान् गृहीत्वा सूरिपदोचिताभिर्द्वादशमुद्राभिर्वर्धमानविद्यया अभिमंत्रयेत् । तत ध्वजप्रतिष्ठामंत्रेण अष्टोत्तरशतवारं वासक्षेपं कुर्यात् । मंत्रो यथा - जये २ जयन्ते अपराजिते ह्रीं विजये अनिहते अमुम् अमुकचिह्नाङ्कितं ध्वजम् अवतर २ शत्रुविनाशं जयं यशो देहि २ स्वाहा । ततो गन्धाक्षतपुष्पधूपदीप नैवेद्यः ध्वजपूजनं जये गन्धं गृहाण २ एवम् । अक्षतान् पुष्पं धूपं दीपं नैवेद्यं गृहाण शान्तिं तुष्टिं जयं कुरु २ स्वाहा इति सर्वपूजा दानं । तनो दिनत्रयं ध्वजरक्षणं महोत्सवराजप्रतिष्ठाकारकाय गृह्यगुरवे स्वर्णाभरणवस्त्रादि दद्यात् । दीनोद्धरणं माहनपोषणं । ततस्तृतीयेहि ध्वजापनयनं जयादेवीविसर्जनं नन्द्यावर्तविसर्जनं च पूर्ववत् ॥ इति नृपध्वजप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे ध्वजप्रतिष्ठाविधिः संपूर्णः ॥४॥
अथ जिनबिम्बपरिकर प्रतिष्ठाविधिः ||५|| स चायं यदि जिनबिम्बेन सह परिकरो भवति तदा जिनजिनबिम्बप्रतिष्ठायामेव वासक्षेप मात्रेण परिकरप्रतिष्ठा पूर्यते । पृथग्भूते परिकरे पृथक्प्रतिष्ठा विधीयते । परिकराकारो यथा । विम्बाधो गजसिंह की चरूपाङ्कितं सिंहासनं पार्श्वयोश्चमरधरौ तयोर्बहिश्चाञ्जलिकरौ मस्तकोपरिक्रमोपरि तु छत्रत्रयं तत्पार्श्वयोरुभयोः काञ्चनकलशाङ्कितशुण्डाग्रं श्वेतगजद्वयं गजोपरि झर्झरवायकराः पुरुषाः तदूर्ध्वयोः मालाकारौ शिखरे शङ्खध्माः तदुपरि कलशः । मतान्तरे सिंहासनमध्यभागे हरिणद्वयतो रणाङ्कितधर्मचक्रं तत्पार्श्वयोः ग्रहमूर्तयः । एवं निष्पन्ने परिकरे बिम्बप्रतिष्ठोचिते लग्ने भूमिशुद्धिकरणं अमारिघोषणं संघादानं बृहत्स्नात्रविधिना जिनस्नात्रं तत्पूजनं कलशपूजावत् । ततः परिकरे सप्तधान्यवर्धापनम्
rational
For Private & Personal Use Only
www.jainelibrary.org