________________
भाचारदिनकरः
RECEC
॥२१७॥
क्षेपः । फलं जातिसप्तधान्यबलिमोरिण्डकमोदकादिवस्तूनां प्रभूतानां प्रक्षेपणम् । महाध्वजस्य ऋजुगत्या दक्षिणकरे प्रतिमाया बन्धनम् । प्रवचनमुद्रया मूरिणा धर्मदेशना कार्या । संघार्चनम् अष्टाहिका पूजा । ततो विषमदिने त्रिपञ्चसप्तसंख्ये जिनपूजनं कृत्वा बृहत्स्नात्रविधिना भूतबलिं दत्वा चैत्यवंदनं विधाय शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ समस्तवैयावृत्तकरकायोत्सर्गस्तुतिदानं विधाय महाध्वजस्य छोटनम् ।। ततः पूर्ववत् नन्द्यावर्तविसर्जनं साधुभ्यो वस्त्रानपानदानं यथाशक्त्या मार्गणदीनपोषणं । ध्वजरूपं यथा"विवेयकशिखरः प्रमाणमानो ध्वजस्य वै दण्डः । दण्डतृतीयांशोनो भवति तथा ध्वजपटोधपृथुः ॥१॥ शुभ्रो वा रक्तो वा विचित्रवर्णोथवासघंटाभृत् । ध्वजदण्डः स्वर्णमयो वंशमयो वाऽन्यमयः॥२॥" पताकाप्रतिष्ठायां तु सूरिमन्त्रेण वासक्षेपश्च विधेयः चन्दनचर्चनं पुष्पारोपणं चेति । महाध्वजप्रतिष्ठायां तु बिम्बपरिकरशिखरमारभ्य समण्डपं प्रासादमन्तरवगाह्य पुनर्बहिः परिवृत्य ध्वजदण्डाश्लेषी महाध्वजः । स च जिना-1 ग्रतो नीयते । तत्र कुङ्कमरसेन मायाबीज लिख्यते तदन्तश्च कुङ्कमेनानुरज्यते तत्प्रान्ते पञ्चरत्नं बध्यते सूरिमंत्रेण वासक्षेपश्च विधेयः। ततो महाध्वजाधिरोपणम् ॥४॥ अथ राजध्वजाः मत्स्यसिंहवानरकलशगजवरत्रातालचामरदर्पणचक्रमण्डलाडिताः बहभेदाः तेषां च प्रतिष्ठा नृपगृहे विधेया। तत्र पौष्टिककरणं बृहस्नात्रविधिना गृहबिम्बे स्नात्रं बृहद्दशवलयनन्द्यावर्तस्थापनं पूजनं च जिनबिम्बप्रतिष्ठावत् । ततः संपूर्णनिष्पन्नं ध्वज पूर्ववत् शोधितायां पश्चरत्नगभितायां पृथिव्यामूर्तीकुर्यात् । ततस्तन्मूले अनेकनैवेद्यफलम
R ECOREAK
|॥२१७॥
Jan Education
tonal
For Private & Personal Use Only
Oww.jainelibrary.org