________________
दानं पूर्ववत् । कङ्कणयन्धनं । ततः स्त्रीभिनिरंछनकरणम् । सुरभिमुद्रा १ परमेष्ठिमुद्रा २ गरुडमुद्रा ३ अञ्ज. लिमुद्रा ४ गणधरभुद्रा ५ दर्शनम् । मृरिमन्त्रेण वारत्रयमधिवासनं । स्थावरे तिष्ट तिष्ठ स्वाहा अनेन वस्त्राच्छादनम् । तदुपरि पूर्ववत् जम्बीरादिफलसप्तधान्यकपुष्पपत्रपरिक्षेपः । ततः कलस्यारात्रिकावतरणं । वृत्तं यथा “दुष्टसुरासुररचितं नरैः कृतं दृष्टिदोषजं विघ्नम् । तद्गच्छत्वतिदूरं भविककृतारात्रिकविधानैः ॥१॥" चैत्यवन्दनं । ततोऽधिवासनादेव्या आराधनानिमित्तं करेमि काउस्सग्गं अन्नत्थ. यावत् अप्पा० चतुर्विंशतिस्तवचिन्तनं पारयित्वा अधिवासनदेवीस्तुतिकथनं पूर्ववत् । किंतु जैनबिम्बस्थाने जैनकलशे इति कथनीयम् । ततः शात्तिदेव्यम्बिकादेवीसमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततः पुनः पूर्ववत् शान्तिबलिदानं शक्रस्तवेन चैत्यवन्दनं बृहच्छान्तिस्तवमणनं प्रतिष्ठादेवताराधनार्थ करेमि काउस्सग्गं कायोत्सर्गश्चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं । यदधिष्ठिताः प्रतिष्ठा० इति स्तुतिपाठः । मूरिः स्वयं अक्षतैरञ्जलिं कृत्वा लोकाश्च तथाक्षतभृताञ्जलीन् समीपे विधाय मङ्गलगाथाः पठेत् । नमोऽहत्सिद्धा० १ जह सग्गस्स० २ जह मेरुस्स० ३ जह लवणस्स० ४ जह जम्बुस्स० ५। ततः पूर्ववृत्तेन पुष्पाञ्जलिक्षेपः वन्नापनयनं महोत्सवो धर्मदेशना पूर्ववत् । ततः प्रासाद मूर्ध्नि मण्डपमूनि वा कलशारोपणं तदारोपकस्य स्थपतेः वस्त्रकणादिदानं अष्टाहिकामहोत्सवः साधुभ्यो वस्त्रपात्रान्नदानं संघार्चा मार्गणदीनतोषणं । पाषाणमये कलशे चैत्यसमाप्तिसमकालरोपिते चैत्यप्रतिष्ठैव सैव पूर्णा प्रतिष्ठा । तस्मिश्च कालान्तरारोपिते
Jan Education
For Private & Personal use only
utainelibrary.org