SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ द्वितीयवलये विद्यादेवीस्थापनं । तृतीयवलये शासनयक्षिणीस्थापनं । चतुर्थवलये दिक्पालस्थापनं । पञ्चमवलये ग्रहक्षेत्रपालस्थापनं । ततो बहिश्चतुर्दिक्षु चतुर्णिकायदेवस्थापनं । एषाम् आवाहनं पूजनं सर्व पूर्ववत् । इति पञ्चवलयो नन्द्यावर्तविधिः । अन्यत्सर्व चैत्यवत् । मण्डपिकाप्रतिष्ठा देवकुलिकाप्रतिष्ठावत् । कोष्ठिकादिप्रतिष्ठायां सूत्रेण रक्षाकरणं दिक्पालग्रहपूजनं वास्तुदेवतामंत्रेण वासक्षेपः ॥ इति प्रतिष्ठाधिकारे चैत्यप्रतिष्ठाविधिः ॥२॥ अथ कलशप्रतिष्ठाविधिः॥३॥ सचायम् । तत्र भूमिशुद्धिः पूर्ववत् । लग्नशुद्धिः प्रतिष्ठावत् । गन्धोदकैः पुष्पैर्भूम्यधिवासनं च । तत्र पूर्वमेव आदितस्तदभूमौ पञ्चरत्नकं कुम्भकारचक्रमृत्तिकासहितं भूम्यन्तनिक्षिपेत् । तत्रोपरिकलश स्थापयेत् । ततः सर्वजलाशयेभ्यः पवित्रस्थानाजलानयनं पूर्ववत् । ततो बृहत्स्नात्रविधिना चैत्यविम्बे स्नात्रकरणम् । लघुपश्चवलयनन्द्यावर्तस्थापनं पूजनं पूर्ववत् । तथाच जिनबिम्बचैत्यमण्डपदेवकुलिकामण्डपिकाकलशध्वजगृहबिम्बप्रतिष्ठाकारयितणां नृणां याज्यानां गृहे पूर्वमेव शान्तिकं पौष्टिकं च कुर्यात् । तथा नन्द्यावर्तपूजनानन्तरं सर्वदिक्षु दिक्पालनामग्रहणपूर्वकं शान्तिबलिं दद्यात् । यथा , इन्द्राय नमः ॐ इन्द्र इह कलशप्रतिष्ठायां इमं बलिं गृहाण २ स्थपकस्थापककर्तणां संघस्य जनपदस्य शान्ति तुष्टिं पुष्टिं कुरु २ स्वाहा । एवं सर्वदिक्पालानां सर्वदिगभिमुखं बलिदानं । तत्र बलिदाने पूर्व जलचुलुकक्षेपः पश्चाद्गन्धछटा ततः पुष्पक्षेपः ततो राद्धसप्तधान्यक्षेपः अनेनैव मंत्रेण सर्वेषाम् 9 अग्नये नमः ॐ अग्नये Santop For Private & Personal Use Only Omaw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy