________________
आचार
दिनकर :
॥२१४ ॥
Jain Education
पक्षवर्षान्तरेषु वा संघमीलनम् । चैत्यचतुर्दिक्षु वेदिकाकरणं कुर्वीत । ततश्चतुर्विंशतितन्तुसूत्रेण अन्तर्बहिर्वेष्टितेन चेत्यरक्षाकरणं शान्तिमंत्रेण । ततः स्नात्रकारपञ्चकम् औषधिवर्त कनारीपञ्चकं पूर्ववत् । तथैव रसाञ्जनसौवीरमाक्षिकवर्तनं नास्ति । ततो बृहत्स्नात्रविधिना जिनस्नात्रं विधाय सप्तधान्यवर्धापनं बिम्बवत् रक्षाबन्धनं च विम्बवत् । ततो रौद्रदृष्टया मध्याङ्गुलिद्वयोर्ध्वकरणेन वामकरजलेन चेत्याछोटनम् । ततश्चैत्यस्यवस्त्राच्छादनम् उपरि च पूर्ववत् । नानागन्धफलपुष्पैः पूजनम् । ततो नन्द्यावर्तस्थापनं पूजनं सर्व विम्बप्रतिष्ठावत् । ततः संप्राप्तायां लग्नवेलायां वासक्षेपपूर्व जिनप्रतिष्ठामंत्रं पठित्वा वास्तुदेवतामंत्रं पठेत् । सचायं ॐ ह्रीं श्रींक्षांक्षांहीं भगवति वास्तुदेवते ल ५ क्षि५ इह चैत्ये अवतर २ तिष्ठ २ स्वाहा इति वासक्षेप - पूर्वकं देहल्यां द्वारश्रियां शिखरे सप्तसप्तवेलं वासान् क्षिपेत् । ततो वेद्यन्तेषु नैवेद्यशरावादि पूर्ववत् । ततः प्रतिष्ठाता पुनः बृहत्स्नात्रविधिना जिनस्नात्रं कुर्यात् । ततश्चेत्यात् वस्त्रापनयनं महोत्सवश्च सर्वोपि पूर्ववत् । ततः प्रतिष्ठादेवता विसर्जनं शक्रस्तव कायोत्सर्गास्तुतिप्रभृति सर्वे पूर्ववत् । ततः प्रतिष्ठितध्वजारोपश्चैत्ये । ध्वजप्रतिष्ठा तदधिकाराज्ज्ञेया । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । महाचैत्यप्रतिष्ठावत् मण्डपप्रतिष्ठा । किंतु जिनस्नात्रमेकवेलमेव । देवकुलिकाप्रतिष्ठायां वेदिकरणं वेदिबलिविधानं । बृहन्नन्द्यावर्तपूजनं नास्ति किंतु लघुनन्द्यावर्तपूजनं । तस्य चायं विधिः । पूर्ववन्नन्द्यावर्तलिखनं । तद्दक्षिणपार्श्वे धरणेन्द्रस्थापनं वामपार्श्वे अम्बा देवस्थापनं अधः श्रुतदेवीस्थापनं । उपरि गौतम गणधरस्थापनं । प्रथमवलये पञ्चपरमेष्ठिरत्नत्रयस्थापनं ।
For Private & Personal Use Only
॥२१४॥
ww.jainelibrary.org