________________
6
-
आचार: दिनकरः
विभाग: सूर्येन्दुद.
5-
॥११॥
-
4% 84-%%95645960-
स्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियंकरोऽसि, शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, मुनिवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्मासि, चक्रबान्धवोऽसि, नमस्ते भगवन् प्रसीदास्य कुलस्य तुष्टि पुष्टि प्रमोदं कुरु कुरु, सन्निहितो भव अहं ॐ॥ इति पठति गुरौ, सूर्यमवलोक्य माता सपुत्रा गुरुं नमस्कृर्यात् । गुरुः सपुत्रां मातरमाशीर्वादयेत् । यथा आर्या"सर्वसुरासुरवन्द्यः कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्चक्षुर्मङ्गलदस्ते सपुत्रायाः॥१॥'दक्षिणा सूतके नास्ति । ततो गुरुः स्वस्थानमागत्य जिनप्रतिमा स्थापितसूर्य च विसर्जयेत् । मातापुत्री सूतकभयात्तत्र नानयेत् । तस्मिन्नेव दिवसे सन्ध्याकाले गुर्जिनपूजापूर्व प्रतिमाग्रतः स्फटिकरूप्यचन्दन' मयी चन्द्रमूर्ति स्थापयेत् । अन्यत्र गृहे तं च शशिनं शान्तिकादिप्रक्रमोक्तविधिना पूजयेत् । ततश्च तयैव सूर्यदर्शनरीत्या चन्द्रोदये प्रत्यक्षचन्द्रसंमुखं मातापुत्रौ नीत्वा वेदमन्त्रमुच्चरन् तयोश्चन्द्रं दर्शयति । चन्द्रस्य वेदमन्त्रो यथा-"ॐ अहं चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोऽसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रपतिरसि, कौमुदीपतिरसि, निशापतिरसि, मदनमित्रमसि, जगज्जीवनमसि, जैवातकोऽसि, क्षीरसागरोद्यो ऽसि, श्वेतवाहनोऽसि, राजासि, राजराजोऽसि, औषधीगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! अस्य कुलस्य ऋद्धिं कुरु, वृद्धिं कुरु, तुष्टिं कुरु, पुष्टिं कुरु, जयं कुरु, विजयं कुरु, भद्रं कुरु, प्रमोदं कुरु, श्रीशशाङ्काय नमः अहं ॐ॥” इति पठन् माताएत्रयोश्चन्द्रं दर्शयित्वा तिष्ठेत् । सा च सपुत्रा गुरुं नम
॥११॥
Jain Education ineKH
For Private & Personal Use Only
ainelibrary.org