SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कौशेयं कृष्णसूत्रं च कपर्दी गीतमङ्गलम् । लोहरक्षा तथा वस्त्रं दक्षिणार्थ धनानि च ॥२॥ स्वस्तिकाः कुलवृद्धाश्च जलं सर्वजलाशयात् । आनेयं जन्मसंस्कार एतद्वस्तु विचक्षणैः ॥ ३॥ इति जन्मसंस्कारविधिः । अथ कदाचिदाश्लेषाज्येष्ठामूलेषु गण्डान्ते भद्रायां शिशोर्जन्म भवति, तच्च तस्य तत्पित्रोः तस्य कुलस्य दुःखदारिद्य-शोकमरणदम् । अतएव पिता कुलज्येष्ठश्च तद्विधाने अकृते शिशुमुखं नावलोकयेत्। तद्विधानकरणं प्रक्रमविशेषेण शान्तिकविधौ कथयिष्यते ॥ इत्याचार्यश्रीवर्द्धमानमरिकृते आचारदिनकरे गृहिधर्मपूर्वायने जातकर्मसंस्कारकीर्तनो नाम तृतीय उदयः ॥ ३ ॥ चतुर्थ उदयः। __ अथ सूर्येन्दुदर्शनसंस्कारविधिः । ४। यथा जन्मदिनादिनद्वये व्यतीते तृतीयेऽहि गुरुः समीपगृहेऽहंदर्चनपूर्व जिनप्रतिमाग्रतः स्वर्णताम्रमयीं रक्तचन्दहमयी वा दिनकरप्रतिमा स्थापयेत् । तस्या अर्चनं अनन्तरोक्तशान्तिकपौष्टिकप्रतिष्ठाप्रक्रमोक्तविधिना कुर्यात् । ततश्च स्नातां सुवसनां सभूषणां शिशुमातरं करव्यधृतशिशु प्रत्यक्षसूर्यसंमुख नीत्वा सूर्यवेदमन्त्रमुच्चरन् मातापुत्रयोः सूर्य दर्शयति । सूर्यवेदमन्त्रो यथा-ॐ अर्ह सूर्योऽसि, दिनकरोऽसि, सह Jain Education in For Private & Personal use only R ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy