SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विभागः जन्मस ॥१०॥ च॥१॥" ज्योतिषिकाशीर्वादो यथा-"आदित्यो रजनीपतिः क्षितिसुतः सौम्यस्तथा वाक्पतिःशुक्रः सूर्यसुतो विधुन्तुदशिखी श्रेष्ठा ग्रहाः पान्तु वः। अश्विन्यादिभमण्डलं तदपरो मेषादिराशिक्रमः कल्याणं पृथुकस्य वृद्धिमधिका सन्तानमप्यस्य च ॥१॥ ततोऽवधारितजन्मलग्ने ज्योतिषिके स्वगृहं गते गुरुः सूतिकर्मणे कुलवृद्धाः सूतिकाश्च निर्दिशेत् । अन्यगृहस्थित एव बालस्नपनार्थ जलमभिमन्त्र्य दद्यात् । जलाभिमन्त्रणमन्त्रो यथा-ॐ अहं नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः॥" "क्षीरोदनीरैः किल जन्मकाले यमरुश्रुङ्गे स्नपितो जिनेन्द्रः। स्नानोदकं तस्य भवत्विदं च शिशोर्महामङ्गलपुण्यवृद्धथै ॥१॥” अनेन सप्तवेलं जलमभिमन्त्रयेत् । तेन जलेन कुलवृद्धाः स्नपयन्ति बालं । नालच्छेदश्च स्वकुलाचारेण सर्वेषां। ततो गुरुः स्वस्थानस्थ एव चन्दनरक्तचन्दनबिल्वकाष्ठादि दग्ध्वा भस्म कुर्यात् । तद भस्म श्वतसर्षपलवणमिश्रित पोहलिकायां बन्धीयात् । रक्षाभिमन्त्रणमन्त्रः-"ॐ ह्रीँ श्री अंबे जगदंवे शुभे शुभकरे अमुं बालं भूतेभ्यो रक्ष रक्ष, ग्रहेभ्यो रक्ष रक्ष, | पिशाचेभ्यो रक्ष रक्ष, वेतालेभ्यो रक्ष रक्ष, शाकिनीभ्यो रक्ष रक्ष, गगनदेवीभ्यो रक्ष रक्ष, दुष्टेभ्यो रक्ष रक्ष, शटुभ्यो रक्ष रक्ष, कार्मणेभ्यो रक्ष रक्ष, दृष्टिदोषेभ्यो रक्ष रक्ष, जयं कुरु कुरु, विजयं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, कुलवृद्धिं कुरु कुरु, ॐ ह्रीं ॐ भगवति श्री अंबिके नमः॥” अनेन सप्ताभिमन्त्रितां रक्षापोहलिकां कृष्णसूत्रेण बदध्वा सलोहखण्डां सवरुणमूलखण्ड सरक्तचन्दनखण्डां सवराटिकां कुलवृद्धाभिः शिशुहस्ते बन्धयेत् । “सांवत्सरो घटीपात्रं चन्दनं रक्तचन्दनम् । समीपैकान्तगेहं च सिद्धार्थलवणं तथा ॥१॥ For Private & Personal use only LASSASSISTANCESS ॥१०॥ Jain Education Intel Kinelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy