SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ FARREARRRRRRRRRRROG तृतीय उदयः। अथ जन्मसंस्कारविधिः ॥ ३ ॥ जन्मकाले पूर्णेषु मासदिनेषु गुरुज्योतिषिकसहितः सूतिकागृहासन्नगृहे एकान्ते निष्कलकले स्त्रीबालप्रमुखप्रचाररहिते सघटिकापात्रे सदावहितचेताः पञ्चपरमेष्ठिजापपरायणस्तिष्ठेत् अत्र च दिने पूर्व (न) तिथिवारनक्षत्रादि विलोक्यते जीवकर्मकालायत्तमेतत् । यतः-"जन्म मृत्युद्धनं दौस्थ्यं स्वस्वकाले प्रवर्तते । तदस्मिन् क्रियते हन्त चेतश्चिन्ता कथं त्वया ॥१॥” उक्तं चागमे-श्रीवर्द्धमानस्वामिवाक्यम्-"समयं जम्मणकालं नालं मरणस्स कम्मइ सुरनाह । संपत्तजेण हुंती न अइसया वीअराएहिं ॥१॥” अनो जाते बालके स गुरुः समीपस्थो ज्योतिषिक जन्मक्षणपरिज्ञानाय निर्दिशेत् । तेनापि सम्यग् जन्मकालः करगोचरं विधायावधार्यः । ततश्च बालकपितृपितृव्यपितामहैरच्छिन्ने नाले गुरुज्योतिषिकश्च बहभिर्वस्त्रभृषणवित्तादिभिः पूजनीयः। छिन्ने नाले सूतकं । गुरुर्बालकपितृपितामहादीनांशीर्वादयति । यथा “ॐ अहं कुलं वो व तां सन्तु शतशः पुत्रपौत्रप्रपौत्राः अक्षीणमस्त्वायुर्द्धनं यशःसुखं च अहं ॐ॥” इति वेदाशी। तथा चोक्तं-“यो मेरुङ्ग त्रिदशाधिनाथैदैत्याधिनाथैः सपरिच्छदेश्च । कुम्भामृतैः संस्नपितःस देव आद्यो.विदध्यात कुलवर्द्धनं १ पूर्वात्रापीदृशः प्रयोग आयातः सर्वत्रैव द्वितीयास्थाने चतुर्थी तृतीया वा संगता । Jain Education inte For Private & Personal use only S inelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy