SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकर : ॥ ९ ॥ Jain Education Int गुर्विण साक्षीभूतपतिदेवरादिकुलजां दक्षिणकरधृतकुशः कुशाग्रबिन्दुभिस्तेन स्नात्रोदकेन गुर्विणीशिर:स्तनोदराण्यभिषिञ्चन्नमुं वेदमन्त्रं पठेत् । “ ॐ अर्ह नमस्तीर्थङ्कर नामकर्मप्रतिबन्ध संप्राप्तसुरासुरेन्द्र पूजा आत्म त्वमात्मायुः कर्मबन्धप्राप्यं तं मनुष्यजन्मगर्भावासमवाप्तोऽसि तद्भवजन्मजरामरणगर्भवासविच्छि तये प्राप्तार्हद्धर्मोऽर्हद्भक्तः सम्यक्त्वनिश्चलः कुलभूषणः सुखेन तव जन्मास्तु । भवतु तव त्वन्मातापित्रौः कुलस्याभ्युदयः, ततः शान्तिः तुष्टिर्वृद्धिः ऋद्धिः कान्तिः सनातनी अहे ॐ ॥” इति वेदमन्त्रमष्टारं पठन् भिषिञ्चत् । ततो गुर्विण्यासनादुत्थाय सर्वजातिफलाष्टकं स्वर्णरूप्यमुद्राष्टकं प्रणामपूर्व जिनप्रतिमाये ढोकयेत् । ततश्च गुरुपादौ प्रणम्य वस्त्रयुग्मं स्वर्णरूप्यसमुद्राष्टकं क्रमुकाष्टकं सताम्बूलं गुरवे दद्यात् । ततो धर्मागारे साधुवन्दनं साधुभ्यो यथाशक्ति शुद्धान्नवस्त्रपात्रदानं कुलवृद्धेभ्यो नमस्कारः । इति पुंसवन संस्कारविधिः । ततः स्वकुलाचारेण कुलदेवतादिपूजनम् । “पञ्चामृतस्नात्रवस्तु स्त्रीवस्त्राणि नवानि च । नवीनं वस्त्रयुग्मं स्वर्णमुद्राष्टकं तथा ॥ १ ॥ रूप्यमुद्राष्टकं चैव तयोरष्टाष्टकं पुनः । षोडशाख्या फलजातिः कुशस्ताम्बूलमुत्तमम् ॥ २ ॥ गन्धाः पुष्पाणि नैवेद्यं सधवागीतमङ्गलम् । वस्तु पुंसवने कार्य संस्कारप्रगुणं परम् || ३ ||" इत्याचार्यश्रीवर्द्धमानसरिकृते आचारदिनकरे गृहिधर्म पूर्वायने पुंसवन संस्कारकीर्त्तनो नाम द्वितीय उदयः ॥ २ ॥ For Private & Personal Use Only विभाग जन्म ॥ ९ ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy