SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीय उदयः। अथ पुंसवनसंस्कारविधिः ॥ २॥ गर्भादष्टमे मासे व्यतीते पूर्णेषु सर्वदोहदेषु सञ्जाते साङ्गोपाऊँ गर्भे तच्छरीपूर्णीभावप्रमोदरूपं स्तन्योत्प- | त्तिसूचकं पुंसवनकर्म कुर्यात् । तत्र नक्षत्रवारादि यथा-"मूलं पुनर्वसू पुष्यो हस्तो मृगशिरस्तथा। श्रवणः कुजगुर्वर्का वारा:पुंसवने मताः॥१॥ षष्ठे मास्यथवाष्टमे तदधिपे वीर्योपपन्ने विधौ चेष्टे दृष्टतनौ नृनामभगते पुंलग्नभागेऽपि च । धीधर्माख्यचतुष्टयेऽमरगुरौ पापैस्तु तद्वाह्यगैर्मृत्युद्वादशवर्जितैश्च मुनिभिः सीमन्तकर्म स्मृतम् ॥२॥"रिक्ता दग्धाः क्रूरा अहस्पृशः अवमाः षष्ठयष्टमीद्वादश्यमावास्यास्तिथीर्वजयित्वा गण्डान्तोपहतनक्षत्राशुभनक्षत्रवर्जिते दिने पूर्वोक्तनक्षत्रवारसहिते पत्युश्चन्द्रबले पुंसवनमारभेत। तद्यथा-गुरुः पूर्वोक्तरूपस्तद्वेषः पत्यौसमीपगगे असमीपगे वा गर्भाधानकर्मणोऽनन्तरं धारिततवस्त्रवेषां तस्केशवेषां गुर्विणी निशाचतुर्थप्रहरे सतारके गगने मङ्गलगानमुखीभिः सभूषणाभिरविधवाभिरभ्यङ्गोदर्तनजलाभिषेकैः स्नपयेत। ततश्च जाते प्रभाते तां गुर्विणी भव्यवस्त्रगन्धमाल्यभूषणभूषितां साक्षिणीं विधाय गृहाहत्प्रतिमां तत्पतिना वा तद्देवरेण वा तत्कुल्येन वा स्वयं गुरुः पञ्चामृतस्नात्रेण बृहत्स्नात्रविधिना स्नपयेत् । ततः सहस्रमूलीस्नानं प्रतिमायाः कुर्यात्। तत्तीर्थोदकस्नात्रंच तत्सर्व स्नात्रोदकं स्वर्णरूप्यताम्रादिभाजने निधाय शुभासने सुखोपविष्टां SACASSACROSSSSSSS Jain Education Internatie For Private & Personal use only
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy