________________
आचारदिनकरः
॥८॥
ARRORGAR
424
ससतीर्थङ्करतीर्थ यावद धृतसम्यक्त्वाः आर्हतानां व्यवहारोपदेशेन धर्मोपदेशादि वितेनुः । ततश्च तीर्थे व्य-8 विभाग वच्छिन्ने तत्रान्तरे ते माहनाः प्राप्तप्रतिग्रहलोभास्तान वेदान् हिंसाप्ररूपणसाधुनिन्दनगर्भतथा ऋग्यजुःसा- पुंसवनसं माथर्वनामकल्पनया मिथ्याइष्टितां निन्युः। ततश्च साधुभिर्व्यवहारपाठपराङ्मुखैस्तान् वेदान् विहाय जिनप्रणीत आगम एव प्रमाणतां नीतः। तेष्वपि ये माहनाः सम्यक्त्वं न तत्यजुः तेषां मुखेष्वद्यापि भरतप्रणीतवेदलेशः कर्मान्तरव्यवहारगतः श्रूयते, स चात्रोच्यते । यत उक्तमागमे-"सिरिभरहचक्कवट्टी आरियवेआण विस्सुओ कत्ता । माहणपढणथमि णं कहि सुहझाणववहारं ॥१॥ जिणतित्थे वुच्छिन्ने मित्थित्ते माहणेहिं ते ठविआ। अस्संजआणपूआ अप्पाणं कारिआ तेहिं ॥२॥ पञ्चावृतं स्नात्रवस्तु सर्वतीर्थोद्भवं जलम् । सहस्रमूलं दर्भश्च कौसुम्भं सूत्रमेव च ॥३॥ द्रव्यं फलानि नैवेद्यं सदशं वसनद्वयम् । शुभमासनपर्ट च स्वर्णताम्रादि भाजनम् ॥४॥ वाद्यं च सधवा नार्यः पतिश्चापि समीपगः। गर्भाधानस्य संस्कारे वस्तून्येतानि कल्पयेत् ॥५" इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने गर्भाधानसंस्कारकीतनो नाम प्रथम उदयः ॥१॥
॥८॥
२ अवेदयदित्यर्थः । ३ तेषां वेदानामिति कञ्चित्समर्थनीयः पाठः ।
Jain Education Inter
For Private & Personal Use Only
nelibrary.org