________________
OSASTOSOSLARARASHISHA
वेलं गुर्विणी शिरसि शरोरे अभिषिञ्चेत् । ततः पञ्चपरमेष्ठिमन्त्रपठनपूर्व दंपती आसनादुत्थाप्य जिनप्रतिमापार्श्व नीत्वा शक्रस्तवपाठेन जिनवन्दनं कारयेत् । यथाशक्त्या फलवस्त्रमुद्रामणिस्वर्णादि जिनप्रतिमाये ढौकयेत । ततश्च गुर्विणी गुरवे स्वसंपत्त्या वस्त्राभरणद्रव्यस्वर्णादिदानं दद्यात् । ततश्च गुरुः सपतिकां गुर्विणी-18|| माशीर्वादयेत् । यथा-"ज्ञानत्रयं गर्भगतोऽपि विन्दन् संसारपारकनिबद्धचित्तः । गर्भस्य पुष्टिं युवयोश्च तुष्टिं युगादिदेवः प्रकरोतु नित्यम् ॥१॥" ततश्च आसनादुत्थाप्य ग्रन्थि वियोजयेत् । ग्रन्थिवियोजनमन्त्रः"ॐ अह-ग्रन्थो वियोज्यमानेऽस्मिन् स्नेहग्रन्थिः स्थिरोऽस्तु वाम् । शिथिलोऽस्तु भवग्रन्थिः कर्मग्रन्थिढी-13 कृतः॥१॥" इति मन्त्रेण ग्रन्थि वियोज्य धर्मागारे दंपतिभ्यां सुसाधुगुरुवन्दनं कारयेत् । साधुभ्यो निर्दोषभोजनवस्त्रपात्रादि दापयेत् । इति गर्भाधानसंस्कारविधिः । ततः स्वकुलाचारयुक्त्या कुलदेवतागृहदेवतापुरदेवतादिपूजनं । इह यदुक्तं जैनवेदमन्त्रा इति तत्प्रतिपाद्यते । यदादिदेवतनूज आदिमश्चक्री भरतो धृतावधिज्ञानः श्रीमयुगादिजिनरहस्योपदेशप्राप्तसम्यक्तज्ञानः सांसारिकव्यवहारसंस्कारस्थितये अर्हनिदेशमाप्य माहनान धृतज्ञानदर्शनचारित्ररत्नत्रयकरणकारणानुमतित्रिगुणत्रिसूत्रमद्राडितवक्षःस्थलान् पूज्यानकल्पयत् तदा च निजवैक्रियलब्ध्या चतुर्मुखीभूय वेदचतुष्कमुच्चार । तद्यथा-संस्कारदर्शनं १ संस्थानपरामर्शनं २ तत्त्वावबोधः ३ विद्याप्रबोध ४ इति । चतुरो वेदान् सर्वनयवस्तुमकीर्तकान्लाहमानपाठयत् । ततश्च ते माहनाः
१ अवच्छेदस्सप्तम्यर्थः शिरोबच्छेदेन गर्भिणी सिच्चेदित्यर्थः शरीरशब्दोवषयवार्थकः । २ ताभ्यामिति शेषः । ३ सम्यक्त्वेति पाठोपि ।
Jain Education
Deal
For Private & Personal Use Only
Jainelibrary.org