________________
आचारः दिनकरः
क्षसरि पुमारिचौरेतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु || विभागः
स्वस्ति कुरु २ भगवति श्रीशान्तितुष्टिपुष्टिस्वस्ति कुरु २ ॐ नमो नमः हूं हूः यः क्षः ह्रीं फट् स्वाहा । गर्भाधान अनेन मन्त्रेण पूर्वोक्तेन वा न स सहस्रमूलिकं सर्वजलाशयजलं सप्तवारमभिमन्य सपुत्रसधवाकरः मङ्गलगीतेषु गीयमानेषु गुर्विणी स्नपयेत् । ततश्च गुविण्या गन्धानुलेपनं सदशवस्त्रपरिधानं यथासंपच्याभरणधारणं कारयित्वा पत्या सह वस्त्राञ्चलग्रन्थिवन्धनं विधाय पतिवामपाचे गुर्विणी शुभासने कृतस्वस्तिकमाङ्गल्ये निवेशयेत् । ग्रन्थियोजनमन्त्रः-"ॐ अहं, स्वस्ति संसारसंबन्धबद्धयोः पतिभार्ययोः । युवयोरवियोगोऽस्तु भववासान्तमाशिषा १" विवाहं वर्जयित्वा सर्वत्र अनेनैव मन्त्रेण दंपत्योग्रंन्थि बध्नीयात् । ततो गुरुस्तस्याः पुरः शुभे पट्टे पद्मासनासीनो मणिस्वर्णरूप्यताम्रपत्रपात्रेषु सजिनस्नात्रजलं तीर्थोदकं संस्थाप्य कुशाग्रपृषतैः आर्यवेदमन्त्रैर्गुर्विणीमभिषिञ्चत् । तथा आर्यवेदमन्त्रो यथा-"ॐ अहं जीवोऽसि जीवतत्त्वमसि प्राण्यसि प्राणोऽसि, जन्म्यसि, जन्मवानसि, संसार्यसि, संसरन्नसि, कर्मवानसि, कर्मबद्धोऽसि, भवभ्रान्तोऽसि, भवसंबिभ्रमिषुरसि, पूर्णाङ्गोऽसि, पूर्णपिण्डोसि, जातोपाजोऽसि जायमानोपाङ्गोऽसि, स्थिरो भय, नन्दिमान भव, वृद्धिमान् भव, पुष्टिमान् भव, ध्यातजिनो भव, ध्यातसम्यक्त्वो भव, तत्कुर्या न येन पुनर्जन्मजरामरणसङ्कुलं संसारवासं गर्भवासं प्राप्नोषि अहं ॐ" इति मन्त्रेण दक्षिणकरघृतकुशाग्रतीर्थोदकबिन्दुभिः सप्त- 1 ॥७॥
१ शूकशलभादय ईतयः । २ अधिकः । ३ रूपेण रचनया वा समस्तेन वा विजातीयस्तादृशवसनान्तरविशिष्टो वा प्रान्तो दशा । ४ पुनरुक्तिः स्पष्टार्थाः ।
१०+96
Jain Education inte
For Private & Personal use only
dibrary.org