________________
Jain Education
शैत्यं सदानन्दम् ॥ ४ ॥” पानीयधाराचं० । ततः कस्तूरेण कर्पूरेण वा पीठिकया उद्धर्त्य कलस १०८ स्नात्रं । ततः पुनः कुसुमाञ्जलिक्षेपः । ततः सर्वोषधिस्नात्रं । “सर्वोषधीषु निवसति अमृतमिदं सत्यमर्हदभिषेकात् । तत्सर्वौषधि सहितं पञ्चामृतमस्तु वः सिद्धयै ॥ ५ ॥ " ततः अङ्गप्रक्षालनं लूहनं विलेपनं च । सुरभिपुष्पैः पूजनं । ततः फलपत्रपूगाक्षतधूपदीपजल नान्दीफलढौकनं । अगरूत्क्षेपः । शुचिस्थाले ग्रहपूजास्थापना । नमः सूर्याय इत्यादि ॥ ॥ अथ ग्रहशान्तिः । " प्रणम्य सर्वभावेन देवं विगतकल्मषम् । ग्रहशान्ति प्रवक्ष्यामि सर्वविघ्नप्रणाशिनीम् ॥ १ ॥ सम्यक्स्तुता ग्रहाः सर्वे शान्तिं कुर्वन्ति नित्यशः । तेनाहं श्रद्धया किं. चित्पूजां वक्ष्ये विधानतः ॥ २ ॥ ग्रहवर्णानि गन्धानि पुष्पाणि च फलानि च । अक्षतानि हिरण्यानि धूपाच सुरभीणि च ॥ ३ ॥ एवमादिविधानेन ग्रहाः सम्यक्प्रपूजिताः । व्रजन्ति तोपमत्यर्थं तुष्टाः शान्तिं ददाति च ॥ ४ ॥ बन्धूकपुष्पसंकाशो रक्तोत्पलसमप्रभः । लोकनाथो जगद्दीपः शान्तिं दिशतु भास्करः ॥ १ ॥ शङ्खहारमृणालाभः काशपुष्पनि भोपमः । शशाङ्को रोहिणी भर्ता सदा शान्तिं प्रयच्छतु ॥ २ ॥ धरणीगर्भसंभूतो बन्धुजीवनिभप्रभः । शान्तिं ददातु वो नित्यं कुमारो वक्रगः सदा ॥ ३ ॥ शिरीषपुष्यसंकाशः कृशाङ्गो भूषणार्जन: । सौमपुत्रो बुधः सौन्यः सदा शान्तिं प्रयच्छतु ॥ ४ ॥ सुवर्णवर्णसंकाशो भोगदायुःप्रदो विदुः । देवमन्त्री महातेजा गुरुः शान्तिं प्रयच्छतु ॥ ५ ॥ काशकुन्देन्दुसंकाशः शुक्रो वै ग्रहपुंगवः । शान्तिं करोतु वो नित्यं भृगुपुत्रो महायशाः ॥ ६ ॥ नीलोत्पलदलश्यामो वैडूर्याञ्जनसमप्रभः । शनैश्वरो विशालाख्यः सदा
For Private & Personal Use Only
www.jainelibrary.org