________________
मा. दि.३६
चिम्बा स्वस्तिकं लिखेत् । ७ । “स्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ १ ॥" अनेन वृत्तेन चं० जिनबिम्बाग्रे नन्द्यावर्त लिखेत् ॥ ८ ॥ ततोऽष्टमङ्गलानि गन्धैः पुष्पैः फलैः पक्वान्नैः पूजयेत् । ततः पुष्पमालां गृहीत्वा । "दर्पणभद्रासन वर्द्धमान पूर्णघटमत्स्ययुग्मैश्च । नन्द्यावर्तश्रीवत्स विस्फुटस्वस्तिकैर्जिनाचसु ॥ १ ॥" अनेन वृत्तेन पुष्पमालां जिनबिम्बोपरि न्यसेत् । अष्टमाङ्गलिक्यस्थापना यथा । तदनन्तरं पुष्पं गृहीत्वा “देवेन्द्रैः कनकाद्रिमूर्द्धनि जिनस्नात्रेण गन्धार्पणैः पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यतएवमत्र भविका विम्बं जगत्स्वामिनस्तस्कृत्यानि समाप्य कल्पितमतः संप्रापयन्त्यास्पदम् ॥ १ ॥" अनेन वृत्तेन धिम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । स्थिरबिम्वे तु । आज्ञाहीनं क्रियाहीनं मंत्र० | १| अनेन पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । तदनन्तरं चैत्यवन्दनं साधुवन्दनं च दिक्पालक्षेत्रपालग्रहस्था पनां प्रति । " यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । सिद्धिं दत्त्वा च महतीं पुनरागमनाय च ॥ १॥" इत्युक्त्वा पुष्पारोपणेन ग्रहदिक्पालक्षेत्रपाल विसर्जनम् । इति बृहत्स्नात्रविधिः || || नवप्रतिष्ठिते बिम्बे प्रतिष्ठास्वखिलास्वपि । शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥१॥ तीर्थे नव्यासु यात्रासु प्राप्ते बिम्बे नवेपिच । बृहत्स्नानविधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥ २ ॥” इति बृहत्स्नात्रविध्युपयोगः ॥ ॥ एवं दिनत्रिपञ्चसप्तकं द्रव्यक्षेत्रकालभावापेक्षया बृहत्स्नान्त्रविधिना नन्द्यावर्तसहितेन पूजा विधेया । ततो नन्द्यावर्त -
For Private & Personal Use Only
jainelibrary.org