________________
आचार
दिनकरः
॥२१०॥
सकलः संघो मङ्गलं पूजका अमी || १ ||" अनेन वृत्तेन पीठोपरि वा समारचितभूमौ वा पुष्पाञ्जलिक्षेपः । “आत्मालोकविधौ जनोपि सकलस्तीवं ततो दुश्वरं दानं ब्रह्मपरोपकारकरणं कुर्वन्परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिदर्पणम् ॥ १ ॥" अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । जिनेन्द्रपादैः परिपूज्य पृष्ठैरतिप्रभावैरपि संनिकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्रं पुरो लिखेन्मङ्गलसत्प्रयोगम् ॥ १ ॥" अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्यमयं वा जिनबिम्बाग्रतो भद्रासनं लिखेत् ॥ २ ॥ " पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथांश्च । वर्धन्त एव जिननायक ते प्रसादात् तद्वर्धमान युग संपुटमादधानः ॥१॥" अनेन वृत्तेनचं० जिनावतो वर्धमानसंपुढं लिखेत् |३| "विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्रीकलशायमानः । अत्रोऽत्र पूर्ण कलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ॥ १॥" अनेन वृत्तेन चन्दन ० जिनप्रतिमाग्रतः पूर्णकलशं लिखेत् । ४ । “अन्तः परमज्ञानं यद्भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्या
प्रकटीभूतं बहिर्वन्दे ॥ १ ॥ अनेन वृत्तेनचं० जिनाग्रे श्रीवत्सं लिखेत् |५| " त्वद्वध्यपञ्चशर केतनभावक्लृप्तं कर्तुं मुधा भुवननाथ निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्वैः पुरो विलिखितोरुनिजाङ्गयुक्त्या ॥ १ ॥" अनेन वृत्तेन चं० जिनाग्रे मत्स्ययुग्मं लिखेत् । ६ । "स्वस्तिभूगगन नागविष्टपेषूदितं जिनवरोदयेक्षणात् । स्वस्तिकं तदनुमानतो जिनस्याग्रतो बुधजनैर्विलिख्यते ॥ १ ॥ अनेन वृत्तनचं० जिन
For Private & Personal Use Only
Jain Education Inational
॥२१०॥
www.jainelibrary.org