________________
विविधैः शाकैः पक्वान्नैः षड्रसान्वितैः । नैवेद्यः सर्वसिद्धयर्थ जायतां जिनपूजनम् ॥१॥" अनेन वृत्तेन बिम्बाग्रे नैंवेद्यढोकनम् । “गोधूमतन्दुलतिलैहरिमन्थकैश्च मुगाढकीयवकलायमकुष्टकैश्च । कुल्माषवल्लवरचीनकदेवधान्यै मत्र्यैः कृता जिनपुरः फलदोपदास्तु ॥१॥” अनेन वृत्तेन जिनाग्रतः सर्वधान्यढोकनम् । “शुण्ठी कणामरिचरामठजीरधान्यश्यामासुराप्रभृतिभिः पटुवेसवारैः । संढोकनं जिनपुरो मनुजैविधीयमानं मनांसि यशसा विमलीकरोतु ॥१॥” अनेन वृत्तेन जिनाग्रतः सर्ववेसवारढोकनम् । "उशीरवटिकाशिरोज्वलनचव्यधात्रीफलैबलासलिखवत्सकैर्घनविभावरीवासकैः। वचावरविदारिकामिशिशताहयाचन्दनैः प्रियङ्गुतगरैजिनेश्वरपुरोस्तु नो ढोकनम् ॥१॥" अनेम वृत्तेन जिनप्रतिमाग्रतः सौंषधीढौकनम् । “भुजङ्गवल्लीछ दनैः सिताभ्रकस्तूरिकैलासुरपुष्पमित्रैः। सजातिकोशः सममेव चूर्णेस्ताम्बूलमेवं तु कृतं जिनाग्रे ॥१॥" अनेन वृत्तेन जिनबिम्बाग्रे ताम्बूलढोकनम् । "सुमेरुशङ्गे सुरलोकनाथः स्नात्रावसाने प्रविलिप्य गन्धैः । जिनेश्वरं वस्त्रचयैरनेकैराच्छादयमास निषक्तभक्तिः ॥१॥ ततस्तदनुकारेण सांप्रतं श्राद्धपुङ्गवाः कुर्वन्ति वसनैः पूजां त्रैलोक्यखामिनोऽग्रतः ॥ २॥" अनेन वृत्रद्वयेन जिनबिम्बस्य वस्त्रपूजा । "सुवर्णमुद्रामणिभिः कृ. तास्तु पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशले घृतशुद्ध भावैः ॥१॥" अनेक वृत्तेन सुवर्णरूप्यटङ्कमुद्रामणिभिबिम्बस्याङ्गपूजाजिनविम्बाग्रतो विस्तीर्णत्रीपर्णीपीठं अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वा । “मङ्गलं श्रीमदहन्तो मङ्गलं जिनशासनम् । मङ्गलं
AASARORECASTLECRECIPAK
Jain Education neenal
For Private & Personal Use Only
Tww.jainelibrary.org