SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ R आचारदिनकरः ॥२०८॥ PRECAUSESAR नाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघण्टा सुररिपुमदमोदाघातिशब्दं चकार ॥३॥ द्वात्रिंशल्लक्षविमानमण्डले तत्समा महाघण्टाः। ननदुः सुदुःप्रधर्षा हर्षोत्कर्ष वितन्वन्त्यः ॥४॥ तस्मानिश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्रः स्वकल्पान् कल्पेन्द्राव्यन्तरेन्द्रानपि भुवनपतींस्तारकेन्द्रान्समस्तान् । आहायाताय तेषां स्वमुखभवगिराख्याय सर्व स्वरूपं श्रीमत्कार्तस्वराद्रेः शिरसि परिकरालंकृतान्प्राहिणोच ॥ ५॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थकरजन्मगेहम् । परिच्छदैः सार्धमथो जिनाम्बां प्रस्वापयामास वरिष्ठविद्यः ॥६॥ कृत्वा पञ्चवषि विष्टपपतिः संधारणं हस्तयोश्छत्रस्योदहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि निर्वाणदातुः पुरो रूपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनबहिर्व्यधात् ॥ ७॥ सामानिकाङ्गरक्षरेवं परिवारितः सुराधीशः। बिभ्रत्रिभुवननाथं प्राप सुरादि सुरगणाढ्यम् ॥८॥ तत्रेन्द्रास्त्रिदशाप्सरः परिवृता विश्वशितुः संमुख मझ्वागत्य नमस्कृति व्यधुरलं स्वालङ्कृतिभ्राजिताः। आनन्दान्नऋतुस्तथा सुरगिरिस्त्रुटयद्भिराभास्वरैः शृङ्गैः काञ्चनदानकर्मनिरतो भातिस्म भक्त्या यथा ॥९॥ अतिपाण्डुकम्बलाया महाशिलायाः शशाधवलायाः। पृष्ठे शशिमणिरचितं पीठमधुदेवगणवृषभाः ॥१०॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निविडां भक्तिं दधौ मनसि ॥११॥ इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः। वेदरसखवसु ८०६४ संख्यं मणिरजतसुवर्णमृद्रचितम् ।।१२।। कुम्भाश्च ते योजनमात्रकावका आयाम औन्नत्यमथैषु चैवम् । दशाष्टबाहत्कर GEOGREACHECCORRECECAUSA ॥२०८॥ Jain Education Intern For Private & Personal Use Only inelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy