SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥२०७॥ शतां येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः। पुनः पुष्पाञ्जलिं करे गृहीत्वा । “आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः। तद्वादिकल्पनां कृत्वा स्नापयामि जिनेश्वस्म् ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ततः क्षीरभृतं कलशं करे गृहीत्वा। “भगवन्मनोगुणयशोनुकादिदुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं पुनातु दत्तं जिनस्नात्रे ॥१॥” अनेन वृत्तेन क्षीरस्नात्रम्। पुनः दधिभृतं कलशं करे गृहीत्वा । “दधिमुखमहीध्रवर्ण दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधि दधिसारपुरस्कृतं जिनस्नात्रे ॥१॥” अनेन वृत्तेन द्धिस्नात्रम् । पुनः घृतभृतं कुम्भं गृहीत्वा । "स्निग्धं मृदु पुष्टिकरं जीवनमतिशीतलं सदाभिख्यम् । जितमतवध्धृतमेतत्पुनातु लग्नं जिनस्नात्रे ॥१॥" अनेन वृत्तेन घृतस्नात्रम् । पुनरिक्षुरसभृतं कलशं गृहीत्वा । "मधुरिमधुरीणविधुरितसुधाधराधार आत्मगुणवृत्त्या। शिक्षयतादिक्षुरसो विचक्षणोघं जिनस्नात्रे ॥१॥" अनेन वृत्तेन इक्षुरसस्नात्रम् । पुनः शुद्धजलभृतकलशं गृहीत्वा । "जीवनममृतं प्राणदमकलुषितमदोषमस्तसर्वरुजम् । जलममलमस्तु तीर्थाधिनाथबिम्बानुगे स्नात्रे ॥१॥" अनेन वृत्तेन जलस्नात्रम् । इति पञ्चामृतस्नात्रम् । पुनः सहस्रमूलमिश्रजलकलशं गृहीत्वा । "विघ्नसहस्रोपशमं सहस्रनेत्रप्रभावसद्भावम् । दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥१॥" अनेन वृत्तेन सहस्रमूलस्नात्रम् । पुनः शतमूलमिश्रितजलकलशं गृहीत्वा । “शतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वाञ्छितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥" अनेन वृत्तेन शतमूल ECORRENERA RECESSOS ॥२०७॥ ___Jain Education i rmala For Private & Personal use only h ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy