________________
॥२॥ अनन्यशुभदेशनावशगतोरुदेवासुरं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् । अशेषमुनिमण्डलीप्रणतिरञ्जिताखण्डलं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् ॥ ३॥ स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं महाकुमतवारणं सुकृतसत्त्वसंरक्षणत् । परिस्फुरदुपासकं मृदुतया महाचेतनं वितीर्णजननिवृनि मृदुतया महाचेतनम् ॥४॥ पयोधरविहारणं जिनवरं श्रियां कारणं पयोधरविहारणं सरलदेहिनां तारणम् । अनङ्गकपरासनं नमत मञ्ज तीर्थेश्वरं अनङ्गकपरासनं विधृतयोगनित्यस्मृतम् ॥५॥" पृथ्वीवृत्तानि । अनेन । "स्वरयज्ञाते स्तुतिपदमहो कि स्वयि ज्ञातरूपे स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुति थ योग्या । तस्मात्सिद्धयुवजनविधिना किंविदाख्यातिभाजो लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः ॥१॥” इति वृत्तं पठित्वा अधिकृतजिनस्तोत्रं पठेत् । पुनः श. ऊ. धूपदानं ।२४। पुनः कु०-"कुलालतां च पर्याप्तं निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा ॥१॥ जयताजगतामीशः कल्पवत्तापमानदः। निरस्तममतामायः कल्पवत्तापमानदः ॥२।। महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारग-४ तेश्वर ॥३॥ समाहितपरीवार परीवारसमाहित । नमोस्तु ते भवच्छ्रेयो भवच्छ्यो नमोस्तु ते ॥४॥वराभिरूयवराभिस्य कृपाकर कृपाकर । निराधार निराधार जयानतजयानत ॥५॥" श्लोकाः । अनेन । "नस्वर्गाप्सरसा स्पृहा सादयो ना नारकच्छेदने नो संसारपरिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन्कित्वेककं प्रार्थये त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥" अनेन
CHCECIE CHORWEGGES
Jan Educatio
n
al
For Private & Personal Use Only
Dow.jainelibrary.org