________________
मा.दि. ३५
૧૩
Jain
यति मानवमानव कौमम् ॥ १ ॥" अनेन वृत्तेन बिम्बे मालारोपणम् । पुनः श० ऊ० पुनर्धूपदानं । १९ । पुनः कु० - " बहुशोकहरं बहुशोकहरं कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥ १ ॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशयं वसुसंवलभं वसुसंवलभं परमातिशयम् ॥ २ ॥ अनिपाटवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥ ३ ॥ सरमं कृतमुक्तिविलासरमं भयदं भयमुक्तमिलाभयदम् । परमंत्रजनेत्रमिदं परमं भगवन्तमये प्रभुता भगवम् ॥ ४ ॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्यमुणीशरणम् । शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् || ६ ||” जगतीवृत्तामि । अनेन० । “आशातना या किल देवदेव मया त्वदचरचनेऽनुषक्ता । क्षमस्व तां नाथ कुरु प्रसादं प्रायो नराः स्युः प्रचुरप्रमादाः || १ ||" अनेन वृत्तेन विम्बस्य अञ्जलिना बद्धेन अपराधक्षामणम् । पुनः श० ऊ० पुनर्धूपदानं । २० । पुनः कु० - " करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः ॥ १ ॥ विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् || २ || जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि सुखदं विशालवासचयम् ॥ ३ ॥ गृङ्गारसमर्यादं यादः पतिवत्सदाप्यगाधं च । शृङ्गारसमर्वादं यादः पतिव न्दितं प्रणिपतामि ॥ ४ ॥ भीमभवार्णवपोतं वन्दे परमेश्वरं सितश्लोकम् । उज्झितकल पोतं वन्दे परमेश्वरं
For Private & Personal Use Only
ainelibrary.org