________________
नेत्रश्रीजितजलवाहवाहवाहो योगित्वामृतघनशीतशीतशीतः। वैराग्यादधृतसुवालवालवालो नामार्थोत्थितमुधीरधीरधीरः॥५॥" प्रहर्षिणीवृत्तानि । अनेन । "क्षणनताडनमर्दनलक्षणं किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवनस्तुतियोग्ययदक्षतेस्तव तनुष्व जने फलितं हि तत् ॥१॥” अनेन वृत्तेन बिम्बे अक्षतारोपणम् । पुनः श० ज० धूपोत्क्षेपः ।१६। पुनः कु०-"तारंतारङ्गमलनैः स्यादवतारंसारं सारङ्गेक्षणनार्यक्षतसा रम् । कामं कामं घातितवन्तं कृतकामं वामं वाम द्रुतमुज्झितगतवामम् ॥ १॥ देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं दूतभावम् । नारं नारं शुद्धभवन्तं भुवनारं मार मार विश्वजयं तं सुकुमारम् ॥२॥ देवं देवं पादतलालन्नरदेवं नार्थनार्थ चान्तिकदीप्यच्छुरनाथम् । पाकं पाकं संयमयन्तं कृतपाकं वृद्धं वृद्धं कुइमलयन्तं सुरवृद्धम् ॥३॥ कारं कारंभाविरसानामुपकारं काम्यं काम्यंभाविरसानामतिकाम्यम् । जीवं जीवंभाविरसानामुपजीवं वन्देवन्दे भाविरसानामभिवन्दे ॥४॥ सर्वैः काय संकुलरत्नं कुलरत्नं शुद्धस्फुर्त्या भाविवितानं विवितानम् वन्दे जातत्राससमाधि ससमाधि तीर्थाधीशं संगतसङ्गं गतसङ्गम् ॥६॥" मत्तमयूरवृत्तानि । अनेन । "खामिन् जायेताखिललोकोऽभयरक्षो नामोचारात्तीर्थकराणामनघानाम् । यत्तदिबम्बे रक्षणकर्म व्यवसेयं तत्र प्रायः श्लाध्यतमः स्याद्यवहारः ॥१॥" अनेन वृत्तेन बिम्बशरीरे ह्रां ह्रीं हं ह्रीं ह्रः रूपैः पञ्चशून्यैः पञ्चाङ्गरक्षा । पुनः श. ऊ. धूपोत्क्षेपः ।१७। पुनः कु० -"बद्धनीतासुगं बद्धनीता
१ संगमयंत इति पाठः ।
Jain Education in
For Private & Personal Use Only
Dwijainelibrary.org