________________
आचार
दिनकरः
॥२०३॥
Jain Education Inte
प्रमादे सपदि सपदिभक्ता वासंधूपः संधूपः ॥ १॥" अनेन वृत्तेन संयुक्त धूपोत्क्षेपणं । पुनः श० ऊ० । धूपोत्क्षेपः । १४। पुनः कु० - " आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशीरेकपाददयिताकमनीयः ॥ १ ॥ वर्षदानकर भाजितलक्ष्मीश्चारुभीरु करि भाजित वित्तः । मुक्तशुभ्रतरलालसहारो ध्वस्तभूरितरलाल सकृत्यः ॥ २॥ युक्तसत्यबहुमानवदान्यः कल्पितद्रविणमानवदान्यः । देशनारचित्तसाधुविचारो मुक्तताविजितसाधुविचारः ॥ ३ ॥ उक्तसंशय हरोरुकृतान्तस्तान्त से वकपलायकृतान्तः । पावनीकृतवरिष्कृतान्तस्तां तथा गिरमवेत्य कृतान्तः ॥ ४ ॥ यच्छतु श्रियमनर्गलदानो दानवस्त्रिदशपुण्यनिदानः । दान वार्थकरिविभ्रमयानो यानवर्जितपदोतियानः ॥ ५ ॥” स्वागतावृत्तानि । अनेन । “अमृतविहितपोषं शैशवं यस्य पूर्वादमृतपथनिदेशाद्दुर्धरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिर्व्रतादोरमृतममृत संस्थयाचनायास्तुतस्य ॥ १ ॥" अनेन वृतेन बिम्बे जलपूजा | पुनः श० ऊ० । धूपोत्क्षेपः ॥ १५ ॥ पुनः कु०"विश्वेशः क्षितिलसमानमानमानः प्रोद्याती मरुदुपहारहारहारः । संत्यक्तप्रवरवितानतानतानः सामस्त्याद्विगतविगानगानगानः ॥ १ ॥ विस्फूर्जन्मथितविलासलासलासः संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजि तविकालकालकालश्चारित्रक्षरितनिदानदानदानः ॥ २ ॥ पूजायां प्रभवदपुण्यपुण्यपुण्यस्तीर्थार्थं विलसद्गगण्यगण्यः । सद्ध्यानैः स्फुरदवलोकलोकलोको दीक्षायां हतभवजालजालजालः ॥ ३ ॥ स्मृत्यैव क्षतकरवीरवीर वीरः पादान्तप्रतिनतराजराजराजः । सद्विद्याजितशतपत्रपत्रपत्रः पार्श्वस्थप्रवरविमानमानमानः ॥४॥
For Private & Personal Use Only
1120311
www.jainelibrary.org