________________
Jain Education १०२
सहरं सदा सुखं विजये च तेजसि परिष्ठितं चिरम् ॥ २ ॥ निजभावचौरदमनं दद्यानिधिं दमनं च सर्वमुनिमण्डलीबृतम् । मुनिमञ्जसा भवल सप्तयोनिधौ निलसक्तवीर्यसहितं नमामि तम् ॥ ३ ॥ बहुलक्षणौधकमनीयविग्रहः क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो भवमुक्तमुक्त क्रुपदावतारणः ॥४॥ सुरनाथमा नहरसंपदश्चितः क्षतराजमान हर हासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो विगताभिमानहरवध्यशातनः ॥ ५ ।। " संधिवर्षिणीवृत्तानि । अनेन० । “धाराधाराभिमुक्तोद्र सबल सबलेक्षोदकाम्यादकाम्या भिक्षाभिक्षाविचारस्वजनितजनितप्रातिमानोऽतिमानः । प्राणप्राणप्रमोदप्रणयननयनंधात हंधात हन्ता श्रीदः श्रीप्रणोदी स्वभवनभवनः काकतुण्डाकतुण्डा ॥ १ ॥" अनेन वृत्तेन अगरुक्षेपः । पुनः श० क० धूपो त्क्षेपः । १३ । पुनः कु० - "ज्ञानकेलिकलितं गुणनिलयं विश्वसारचरितं गुणनिलयम् । कामदाहदहनं परममृतं स्वर्गमोक्षसुखदं परममृतम् ॥ १ ॥ स्वावबोधरचनापरमहितं विश्वजन्तुनिकरे परमहितम् । रागसङ्गिमनसां परमहितं दुष्टचित्तसुमुचां परमहितम् ॥ २ ॥ भव्यभावजनतापविह्ननं भव्यभावजनतापविहननम् । जीवजीवभवसारविनयनं जीवजीवभवसारविनयनम् ॥ ३ ॥ कालपाशपरिघात बहुबलं कालपाशकृतहारविहरणम् । नीलकण्ठसखिसन्निभनिनदं नीलकण्ठ हसितोत्तमयशसम् || ४ || न्यायबन्धुरविचारविलसनं लोकबन्धुरविचारिसु महसम् । शीलसारसनवीरतनुधरं सर्वसारसनवीरमुपनये ॥५॥” जगतीजातिवृत्तानि । अनेन । “विनयविनय वाक्यस्फारयुक्तोरयुक्तः पुरुषपुरुषकाराद्भावनीयोवनीयः । जयतु जयतुषारो दीप्रमादे
For Private & Personal Use Only
www.jainelibrary.org