________________
आचारदिनकरः
॥२०२॥
SSSSSSARASWAR
श्रिये ॥५॥" रथोद्धतावृत्तानि । अनेन । "कार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते त्वत्पूजाविषये द्वयं तदति न प्राप्नोति योगं क्वचित् । यस्मात्पुष्पममीभिरर्चकजनैस्त्वन्मस्तके स्थाप्यते तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात् ॥ १॥" अनेन घृतेन बिम्बशिरसि पुष्पारोपणं । पुनः श० ऊ० धूपोत्क्षेपः । ११ । पुनः कु०-"महामनोजन्मिनिषेव्यमाणो नन्याययुक्तोत्थित एव मत्यैः । महामनोजन्मनिकृन्तनश्च नन्याययुग्रक्षिततीर्थनाथः ॥१॥कामानुयाता निधनं विमुश्चन्प्रियानुलापावरणं विहाय । गतो विशेषानिधनं पदं यः स दुष्टकर्मावरणं भिनत्तु ॥२ ।। मृदुत्वसंत्यक्तमहाभिमानो भक्तिप्रणम्रोरुसहस्रनेत्रः। अम्भोजसंलक्ष्यतमाभिमानः कृतार्थतात्मस्मृतिघस्रनेत्रः॥३॥ समस्तसंभावनया वियुक्तप्रतापसंभावनयाभिनन्दन । अलालसंभावनयानकाक्षी वरिष्ठसंभावनया न काङ्क्षी ॥४॥ समस्तविज्ञानगुणावगन्ता गुणावगन्ता परमाभिरामः । रामाभिरामः कुशलाविसर्पः शिलाऽवसो जयताजिनेन्द्रः॥५॥" उपजातिवृत्तानि । अनेन । "रम्यैरनन्तगुणषड्रसशोभमानैः सवर्णवर्णिततमैरमृतोपमेयः। स्वाङ्गैरवाद्यफलविस्तरणैजिनार्चामर्चामि वचसि परैः कृतनित्यचर्चः॥१॥" अनेन वृत्तेन बिम्बाग्रतः फलढोकनम् । पुनः श० ऊ० धूपोत्क्षेपः ।१२। पुनः कु०-“करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्नयापदसुचारिसंयमो विनययन्नयापदसुचारिसंयमः ॥१॥ इनमन्धतामसहरं सदासुखं प्रणमामि कामितफलप्रदायकम् । इनमन्धताम१ नयाभिलाषी इति पाठः ।
२०२॥
Jan Education
H
enal
For Private & Personal Use Only
Dww.jainelibrary.org