________________
Jain Education
स्नपनपीठक्षालनं । पुनः श० उ० धूपोत्क्षेपः । ९ । कु० - "निहितसत्तमसत्तमसंशयं ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृतेर्नमत लोकगुरुं कगुरुं सदा ॥ १ ॥ सद्भिनन्दननन्दन शेष्यको जयति जीवजीवनशैत्य भाक् । उदितकंदल कंदलखण्डनः प्रथितभारतभारतदेशनः ॥ २ ॥ वृषविधापनकार्यपरम्परासुसदनं सदनं चपलं भुवि । अतिवसौस्वकुले परमे पदे दकमलंकमलंकमलंभुवि ॥ ३ ॥ तव जिनेन्द्र विभाति सरस्वती प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति वुद्धगीः प्रवरपारमिताप्रतिभासिनी ॥ ४॥ सदनुकम्पन कंपनवर्जित क्षतविकारणकारणसौहृद । जय कृपावनपावनतीर्थकृत् विमलमास मानससद्यशः ॥ ५ ॥ द्रुतविलम्बितवृत्तानि । अनेन० । “न हि मलभरो विश्वस्वामिंस्त्वदीयतनौ क्वचिद्विदितमिति च प्राज्ञैः पूर्वे रथाप्यधुनाभवैः । स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं याज्ये विस्वं वृथा तव देव हि ॥ १ ॥ " अनेन वृत्तेन विम्वमार्जनं । पुनः श० क० धूपोत्क्षेपः । १० । पुनः कु० - " संवरः प्रतिनियु संवरो विग्रहः प्रकमनीयविग्रह । संयतः सकलुषैरसंयतः पङ्कहृद्दिशतु शान्तिपङ्कहृत् ॥ १ ॥ जम्भजित्प्रतसूरजम्भजित्संगतः शिवपदं सुसंगतः । जीवनः सपदि सर्वजीवनो निर्वृतिर्भविकदत्तनिर्वृतिः ॥ २ ॥ निर्जरप्रतिनुतश्च निर्जरः पावनः श्रितमहात्रपावनः । नायको जितदयाविनायको हंसगः सविनयोरुहंसगः | ३ | धारितप्रवरसत्कृपाशयः पाशयष्टिवर देवसंस्तुतः । संस्तुतो दमवतां सनातन नातनः कुगतिमङ्गभृन्मृधा ॥ ४ ॥ लोभकारिपरिमुक्तभूषणो भूषणो विगत सर्वपातकः । पातकः कुमनसां महाबलो हावलोपकरणो जिनः
For Private & Personal Use Only
www.jainelibrary.org